________________ अष्टमः सर्गः यः प्रेरयत्यनिशमेव सतः स्वधर्म वृष्टयादिनाऽवति समष्टिजनेष्टिजातम् / आम्नायभाजमकरोन्मुनियाज्ञवल्क्यं तं भास्वरं सनति भास्करदेवमीडे / अथाऽद्भुतेनाऽस्तनिमेषमुद्रमुन्निद्ररोमाणममुं युवानम् / दृशा पपुस्ताः सुदृशः समस्ताः सुता च भोमस्य महीमघोनः // 1 // अन्वय:-अथ अदभुतेन अस्तनिमेषमुद्रम् उन्निद्ररोमाणं युवानम् अमुं ताः समस्ताः सुदृशः महीमघोनो भीमस्य सुना च दृशा पपुः // 1 // व्याख्या-अथ = नलप्रादुर्भावाऽनन्तरम्, अदभुतेन = विस्मयेन, दमयन्तीसाक्षात्कारजन्येनेति शेषः / अस्तनिमेषमुद्रं = निनिमेषम्, उन्निद्ररोमाणं = हृष्टलोमानं, युवानां = तरुणं, अमुं = नलम् पूर्वोक्तविशेषणत्रयस्य रूपान्तरपरिणामः कार्यः, ततश्च -अस्तनिमेषमुद्राः = निनिमेषाः, उन्निद्ररोमाणः = हृष्टलोमानः, युवतयः = तरुण्यः / ता: = पूर्वोक्ताः, समस्ताः = सकलाः, सुदृशः = सुन्दरनयनाः, सभासदः / महीमघोनः = भूमहेन्द्रस्य, भीमस्य, सुता च = पुत्री च, दमयन्ती चेति शेषः / दशा = दृष्टया, पपुः = पीतवत्यः // 1 // ___ अनुवादः-नलका प्रादुर्भाव होनेके बाद दमयन्तीके साक्षात्कारसे उत्पन्न आश्चर्यसे निमेषरहित, रोमाञ्चयुक्त जवान नलको उन सब सभास्थ सुन्दरियोंने और पृथ्वीके इन्द्र' भीमकी पुत्री ( दमयन्ती ) ने भी नेत्रसे पान किया ( देखलिया) // 1 // ___ टिप्पणी - अस्तनिमेषमुद्रम् = निमेषाणां मुद्रा (50 त०), अस्ता निमेषमुद्रा यस्य, तम् ( वहु० ) / उन्निद्ररोमाणम् = उन्निद्राणि रोमाणि यस्य, तम् ( वहु० ) / दूसरे पक्षमें--विभक्ति और वचनका परिणाम कर अस्तनिमेष. मुद्राः = नल के साक्षात्कारसे आश्चर्यसे निमेषरहित, उन्निद्ररोमाणः = रोमाञ्चयुक्त इस तरह "सुदृशः" के विशेषण, सुदृशः = शोभने दृशौ यासां ताः ( बहु० ) पपुः = पा+ लिट् +झि ( उस् ) / इस पद्यमें भावोदय अलङ्कार है / इस सर्गमें छन्द प्रायः उपजाति है // 1 //