________________ 174 नैषधीयचरितं महाकाव्यम् पुत्रं, सुषुवे = जनयामास / गौडोर्वीशकुलप्रशस्तिभणितिभ्रातरि = गौडोर्वीशकुलप्रशस्तिभणितिनामकरचनासहजे, चारुणि = मनोहरे, नैषधीयचरिते = नैषधीयचरितनामके, तन्महाकाव्ये = श्रीहर्षबृहत्काव्ये, सप्तमः = सप्तानां पूरणः सर्गः = अध्यायः, अगमत् = गतः, समाप्त इत्यर्थः // 109 // ___ अनुवादः-श्रेष्ठ पण्डितोंकी श्रेणीके मुकुटके भूषण हीरेके समान श्रीहीर नामक पण्डित और मामल्लदेवीने इन्द्रियोंको जीतनेवाले जिस श्रीहर्ष नामके पुत्रको उत्पन्न किया। "गौडो:शकुलप्रशस्तिभणिति" नामक रचनाके भाई मनोहर नैषधीयचरित नामक उनके महाकाव्यमें सप्तम सर्ग पूर्ण हुआ // 109 // टिप्पणी-अधिकांशस्य-व्याख्यातत्वासंक्षेपेण व्याख्या क्रियते / गौडोर्वीशकुलप्रशस्तिभणितिभ्रातरि = गौडोर्वीशकुलप्रशस्तिभणितेर्धाता, तस्मिन् ( 10 त० ) तन्महाकाव्ये = तस्य महाकाव्यं, तस्मिन् (ष० त० ) / सप्तमः = सप्तानां पूरणः सप्तन् + डट् ( मट् ) + सु / अगमत् = गम् + लुङ्+च्लि ( अङ्)+ तिम् // 109 // इति श्रीशेषराजशर्मप्रणीतायां चन्द्रकलाsभिख्यायां नैषधीयचरितव्याख्यायां सप्तमः सर्गः समाप्तः। ॐ तत्सत् /