________________ 172 नैषधीयचरितं महाकाव्यम् व्यास्या-इयं = दमयन्ती, तावत् = आदौ, विधिना एव = ब्रह्मणा एव, अतिविश्वा = विश्वाऽतिशायिनी, सृष्टा = रचिता, अथ, यौवनेन = तारुण्येन, तस्य अपि = विश्वाऽतिशायित्वस्य अपि, उपरि = ऊर्ध्वस्थाने, नीता = प्रापिता, ततोऽप्युत्कर्ष प्रापितेति भावः / अथ मनोभुवा - कामदेवेन, वैदग्ध्यं = प्रगल्भताम्, अध्याप्य = शिक्षयित्वा, वाक्पथपारम् एव = वचनमार्गपरतीरम् एव, वागगोचरतामेवेति भावः। अवापिता % प्रापिता, अतः साकल्येन कथं वर्णयितुं शक्येति तात्पर्यम् / / 107 // अनुवाद:-इस दमयन्तीको ब्रह्माजीने पहले ही लोकका अतिक्रमण करनेवाली बनाया, तारुण्यने उससे भी ऊपर उठाया, अनन्तर कामदेवेने प्रगल्भताको सिखाकर वचन मार्गके भी दूर स्थानमें पहुंचा दिया // 107 / / टिप्पणी- अतिविश्वा = विश्वम् अतिक्रांता, “अत्य.दयः क्रांताद्यर्थे द्वितीयया” इससे समास / वैदग्ध्यं = विदग्धस्य भावः कर्म वा, तत् विदग्ध ष्यञ् + अम्। अध्याप्य = अधि+ आङ् + इ + णिच् + क्त्वा ( ल्यप् ) / वाक्पथपारं = वाचः पन्थाः वाक्पथः ( षष्ठीत०, समासान्त अप्रत्यय ) / तस्य पारं, तत् (10 त० ), अवापिता = अव+आप+ णिच् + क्त+टाप् + सु / इस पद्यमें दमयन्तीरूप एक वस्तुका अनेक धर्मों में सम्बन्धका कथन होनेसे पर्याय अलङ्कार है / / 107 // इति स चिकुरादारभ्यता नखाऽवधि वर्णयन् / हरिणरमणीनेत्रां चित्राऽम्बुधो तरवन्तरः। हृदयभरणोद्वेलाऽऽनन्दः सखोवृतभीमजा नयनविषयीभावे भावं दधार धराऽधिपः // 108 // अन्वयः-इति स धराऽधिपः हरिणरमणीनेत्रां चिकुरात् आरभ्य नखाऽवधि वर्णयन् चित्राऽम्बुधौ तरदन्तरः हृदयभरणोद्वेलाऽऽनन्दः सखीवृतभीमजानयनविषयीभावे भावं दधार // 108 // ___ व्याख्या- इति = इत्थं, सः = प्रसिद्धः, धराऽधिपः = राजा नल:, हरिणरमणीनेत्रां = मृगीनयनां दमयन्ती, चिकुरात् = केशकलापात्, आरभ्य = उपक्रम्य, नखाऽवधि = पदाऽङ्गुष्ठनखाऽन्तं, वर्णयन् = प्रशंसन्, चित्राऽम्बुवौ = आश्चर्यसागरे, तरदन्तरः = प्लवमानाऽन्तःकरणः, तथा हृदयभरणोद्वेलाऽऽनन्दः = हृत्पूरणनिःसीमहर्षः सन्, सखीवृतभीमजानयनविषयीभावे = वयस्यापरिवृत