________________ नैषधीयचरितं महाकाव्यम् टिप्पणी-स्मराऽऽर्ताः = स्मरेण आर्ताः ( तृ० त० ) / पदाब्जे = पदे अब्जे इव, ते ( उपमित०)। प्रवेष्टु प्र+विश्+तुमुन् / यावद्गणनात् = यावती गणना यस्य, तस्मात् ( बहु० ) / दिगन्तात् = दिशाम् अन्तः, तस्मात् (ष० त० ) / जातिमें एकवचन है। सृष्टाः = सृज+क्त+ जस् / स्वयंवरके लिए आनेवाले राजाओंके आगमनस्थानभूत दिशाओंकी संख्यासूचक दमयन्तीके चरणकमलोंकी दश उँगलियां ब्रह्माजीने बनाईं, यह भाव है। इस पद्य में उत्प्रेक्षा अलङ्कार है // 104 // प्रियासखीभूतवतो मुदेदं व्यधाद्विधिः साधुदशत्वमिन्दोः / एतत्पदच्छद्मपरागपासोभाग्यभाग्यं कथमन्यथा स्यात् // 15 // अन्वयः-विधिः प्रियासखीभूतवतः इन्दोः इदं साधुदशत्वं मुदा व्यधात् / अन्यथा ( अस्य ) एतत्पदच्छद्मसरागपद्मसौभाग्यभाग्यं कथं स्यात् ? // 105 // व्याल्या-विधिः - विधाता, प्रियासखीभूतवतः = प्रियाया: ( दमयन्त्याः ) सखीभतवतः ( सहृद्भुतस्प ), इन्दोः = चन्द्रस्य, इदम् = एतत्, साधुदशत्वं = समीचीनाऽवस्थत्वं, मुदा = हर्षेण, व्यधात् - विहितवान् / अन्यथा = साधुदशत्वविधानाऽभावे / ( अस्य = चन्द्रस्य / एतत्पदच्छमसरागपद्मसौभाग्यभाग्यं = दमयन्तीचरणव्याज-रक्तकमल-सौन्दर्यभागधेयं, कथं = केन प्रकारेण, स्यात् = भवेत् / अन्यथा एतच्चरणशोणसरोजसादृश्यं चन्द्रस्य कथं स्यादिति भावः // 105 // ___ अनुगदः - ब्रह्माजीने दमयन्तीके मित्रभूत चन्द्रकी इस उत्तम अवस्थाको हर्षसे बनाया। नहीं तो दमयन्तीके चरणके बहानेसे रक्तकमलके समान सौन्दर्यको पानेका भाग्य चन्द्रमाका कैसे होता ? // 105 // टिप्पणी-प्रियासखीभूतवतः = असखा सखा यथा सम्पद्यते तथा भूतवान् इति सखीभूतवान्, सखि+च्चि + भ् + क्तवतु+ सु / प्रियायाः सखीभूतवान्, तस्य (प० त० ) "प्रियानसखीभूतवत:" ऐसा पाठ नारायणपण्डितसे सम्मत है, उसका अर्थ प्रियाके नख बने हुए, इन्दोः = चन्द्रका यह अर्थ है / साधुदशत्वं : साध्वी दशा यस्य सः (बहु० ), तस्य भावः, तद्, साधुदश+त्व+ अम् / व्यधात् = वि+ धाञ् + लुङ+ तिप् / एतत्पदच्छद्मसरागपद्मसौभाग्यभाग्यम् एतस्याः पदम् ( 10 त० ), तत् छद्म ( छलम् ) यस्य तत् ( बहु० ) / रागेण ( लौहित्येन ) सहितं सरागं ( तुल्ययोगबहु० ), तच्च तत्पद्म सरागपद्मम् ( क० धा० ) / एतत्पदच्छद्म च तत् सरागपद्म ( रक्तकमलम् ), क० धा० /