SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः 157 दण्डश्च नितम्बचक्रं च, ते ( द्वन्द्व० ) / गुणं = गुणः ( सौन्दर्यादिः) एव गुणः ( सूत्रम् ), तम्, यहाँपर श्लिष्ट रूपक है / लावण्यजलं-लावण्यम् एव जलं, तत् ( रूपक० ) / सहकारिचक्रं = सह कुर्वन्तीति सहकारिणः, सह + + णिनि+ ( उप० ), जस् / सहकारिणां चक्रं, तत् (ष० त० ) / इस पद्यमें रूपक, श्लेष और उत्प्रेक्षा इनका सङ्कर अलङ्कार है // 89 // अङ्गेन केनाऽपि विजेतुमस्या गवेष्यते किं चलपत्नपत्त्रम् / नो चेद्विशेषादितरच्छदेभ्यस्तस्याऽस्तु कम्पस्तु कुतो भयेन ? // 90 / / अन्वयः-अस्याः केनाऽपि अङ्गेन चलपत्रपत्त्रं विजेतुं गवेष्यते किम् ? नो चेत् तस्य कुतो भयेन इतरच्छदेभ्यः विशेषात् कम्पस्तु अस्तु ? // 90 // ___ व्याख्या- दमयन्त्या वराऽङ्गं वर्णयति-अङ्गेनेति / अस्याः = दमयन्त्याः, केन अपि = वक्तुम् अशक्येन, सौन्दर्याऽतिशयात् ग्राम्यत्वाद्वा इति भावः / अङ्गेन - देहाऽवयवेन, मदनमन्दिरेणेति भावः / चलपत्नपत्त्रम् = अश्वत्थदलं. विजेतुं = पराजेतुं, गवेष्यते किम् = अन्विष्यते किम् !, नो चेत् = न अन्विष्यते यदि, तस्य = अश्वत्थपत्त्रस्य, कुतः = कस्मात्, भयेन = भीत्या, इतरच्छदेभ्यः = वृक्षान्तरपत्त्रेभ्यः, विशेषात् = अतिशयात्, कम्पस्तु = वेषथुस्तु, अस्तु = स्यात् / माऽन्यत्कम्पकारणं विद्म इति भावः / बलिनाऽन्विष्यमाणो दुर्बल: कम्पत इति प्रसिद्धम् // 90 // ___ अनुवाद:-- इस ( दमयन्ती ) का कोई अङ्ग ( योनिरूप ) पीपलके पत्तेको जीतनेके लिए ढूढ़ रहा है क्या ? ऐसा न होता तो उस ( पीपलके पत्ते ) का किसके भयसे अन्य वृक्षोंके पत्तोंकी अपेक्षा ज्यादा कम्प होता // 90 // टिप्पणी-चलपत्रपत्त्रं = चलानि पत्त्राणि यस्य स चलपत्त्रः, "बोधिद्रुमश्चलदल:" इत्यमरः / चलपत्त्रस्य पत्त्रम् (ष० त० ) गवेष्यते = गवेष + लट् ( कर्ममें ) + त / इतरच्छदेभ्य = इतरेषां छदाः, तेभ्यः ( प० त० ) / बलवान्से ढूढ़ा गया कमजोर व्यक्ति काँपता है यह प्रसिद्ध है / इस पद्यमें उत्प्रेक्षा अलङ्कार है / 90 // भ्रश्चित्ररेखा च तिलोत्तमाऽऽस्या नासा च रम्भा च यदुरुसष्टिः / दृष्टा तत: पूरयतीयमेकाऽनेकाऽप्सरःप्रेक्षणकौतुकानि // 91 / / - अन्वयः- यत् अस्या भ्रूः चित्ररेखा, नासा तिलोत्तमा, ऊरुसृष्टि: रम्भा. ततः इयम् एका दृष्टा ( सती ) अनेकाऽप्सरःप्रेक्षणकौतुकानि पूरयति / / 91 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy