________________ नैषधीयचरितं महाकाव्यम् गौरीव पत्या सुभगा कदाचित् कर्जीयमप्यतनूसमस्याम् / इतीव मध्ये निवधे विधाता रोमाऽवलीमेचकसूत्रमस्याः // 83 // अन्वयः-सुभगा इयं कदाचित् गौरी इव पत्या अर्धतनूसमस्यां कीं इति विधाता अस्या मध्ये रोमाऽऽवलीमेचकसूत्रं निदधे इव / / 83 // व्याख्या- सुभगा = सौभाग्यवती, इयं = दमयन्ती, कदाचित् = जातुचित् मौरी इव = पार्वती इव, पत्या = भ; सह, अर्धतनसमस्याम् = अर्धाऽङ्गसंघटनां, की = विधात्री, इति = एवं, मत्वेति शेषः / विधाता = ब्रह्मा, अस्याः = दमयन्त्याः मध्ये = अङ्गिमध्ये, रोमाऽऽवलीमेचकसूत्रं = लोमाऽऽबलीरूपसीमानिर्णयनीलसूत्रं, निदधे इव = निहितवान् किम् ? // 83 // __ अनुवाद:- “सौभाग्यवती यह ( दमयन्ती ) कभी पार्वतीके सदृश पतिके साथ आधे शरीर को संघटित करेगी" ऐसा विचार कर ब्रह्माजीने इसके आधे अङ्गके बीच में सीमानिर्णयके लिए रोमावलीरूप नीलसूत्रको मानों रख दिया है // 3 // टिप्पणी-सुभगा = शोभनं भगं ( भाग्यम् ) यस्याः सा (बहु०)। पत्या "सह" का अर्थ गम्यमान होनेसे भी तृतीय। अर्द्धतनूसमस्याम् = अर्धं चाऽसो तनूः ( क० धा० ), तस्याः समस्या, ताम् (ष० त०)। रोमावलीमेचकसूत्रं - रोम्णाम् आवली ( 10 त० ) / मेचकं च तत् सूत्रम् ( क० धा० ) / रोमावली एव मेचकसूत्रं, तत् ( रूपक० ) / निदधे = नि+धान्+लिट् + त / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 83 // रोमाऽऽवलीरज्जुमरोजकुम्भौ गम्भीरमासाद्य च नाभिकूपम् / मददृष्टितृष्णा विरमद्यदि स्यान्नैषां बतैषा सिचयेन गुप्तिः // 84 // अन्वयः-मदृष्टितृष्णा रोमावलीरज्जुम् उरोजकुम्भौ गम्भीरं नाभिकूपम् बासाद्य (तदा) विरमेत् एषाम् एषा सिचयेन गुप्तिः न स्यात् यदि बत ! // 84 // __ध्यात्या--मष्टितृष्णा = मद्दर्शनपिपासा, रोमाऽवलीरज्जु = लोमावलीरश्मिम्, उरोजकुम्भोः पयोधरकलशौ, गम्भीरं गभीरं, नाभिकूपं नाभ्युदपानम्, आसाद्य = लब्ध्वा, ( तदा ) विरमेत् = शाम्येत्, अमीभिरुपायावज्याऽमृतमुद्धृत्य सुष्ठ पीत्वेति भावः / एषां = साधनानां रोमावल्यादीनामिति भावः / एषा = इयं, सिचयेन = वस्त्रेण, गुप्तिः = छादनं, न स्यात् यदि = नो भवेत् चेत् / बत इति खेदे // 84 //