________________ सप्तमः सर्गः एतत्कुचस्पद्धितया घटस्य ख्यातस्य शास्त्रेषु निदर्शनत्वम् / तस्माच्च शिल्पान्मणिकादिकारी प्रसिद्ध नामाञ्जनि कुम्भकारः // 75 // अन्वयः-एतत्कुचस्पद्धितया ख्यातस्य घटस्य शास्त्रेषु निदर्शनत्वम् अजनि / ( किं च ) मणिकादिकारी तस्मात् शिललात् कुम्भकार इति प्रसिद्धनामा अजनि // 75 // ____ व्याख्या-एतत्कुचस्पद्धितया = दमयन्तीस्तनपर्दाशीलत्वेन, ख्यातस्य - प्रसिद्धस्य, लोक इति शेषः घटस्य = कुम्भस्य, शास्त्रेषु = न्यायादिशास्त्रेषु, निदर्शनत्वं = दृष्टान्तत्वम्, अजनि जातम् / (किञ्च) माणिकादिकारी अलिञ्च रादिमहाभाण्डनिर्माता कुलाल:, तस्मात् = पूर्वोक्तात्, शिसात् = घटनिर्माणात, कुम्भकार: = “कुम्भकार'' इत्येवं, प्रसिद्धनामा = प्रख्याताभिधानः, अजनि = जातः // 75 / / अनुवादः-दमयन्तीके स्तनसे स्पर्धा करनेसे प्रसिद्ध घट शब्द न्याय आदि शास्त्रोंमें दृष्टान्तरूप हुआ। मणिक ( कुण्डा ) आदि महाभाण्डोंका निर्माण करनेवाला कुलाल भी उसी घटनिर्माणरूप शिल्पसे "कुम्भकार" ऐसा प्रख्यातनामवाला हो गया // 75 / / टिप्पणी-एतत्कुचस्पद्धितया = एतस्याः कुचो (ष० त०), ताभ्यां --स्पर्द्धते तच्छील: एतत्कुचस्पर्धी, एतत्कुच+स्पर्द्ध +णिनि ( उपपद० ) + सु / तस्य भावस्तत्ता, तया, एतत्कुचस्पधिन्+तल +टाप् +टा / मणिकादिकारी मणिक आदिर्येषां ते मणिकादयः (बह०)। “अलिञ्जरः स्यान्मणिक" इत्यमरः / मणिकादीन् करोतीति तच्छीलः, मणिकादि+कृ + णिनि ( उपपद० )+सु / कुम्भकारः = कुम्भं करोतीति, कुम्भ++अण् ( उपपद०)+ सु / प्रसिद्धनामा:प्रसिद्धं नाम यस्य सः ( बहु० ) / महापुरुषोंके संसर्गके समान उनके साथ सङ्घर्ष करनेसे भी प्रसिद्धि होती है यह भाव है // 75 / / गुच्छालयस्वच्छतमोदबिन्दुवृन्दाऽऽभमुक्ताफलफेनिलाङ्के / माणिक्यहारस्य विदर्भसुभ्र पयोधरे रोहति रोहितश्री: / / 76 // अन्वय-माणिक्यहारस्य रोहितश्रीः गुच्छाऽऽलयस्वच्छतमोदबिन्दुवृन्दाभमुक्ताफलफेनिलाऽङ्के विदर्भसुभ्रूपयोधरे रोहति // 76 // व्याख्या-मणिक्यहारस्य = माणिक्यमयमुक्तामालायाः, रोहितश्री: - लोहितकान्तिः, गुच्छाऽऽलयस्वच्छतमोदबिन्दुवृन्दाऽऽभमुक्ताफलफेनिलाऽढे = 10 नै० स.