________________ सप्तम सर्गः अन्वयः-रज्यन्नखस्य अङगुलिपञ्चकस्य मिषात् असौ हैमैकपुङ्खा विशुद्धपर्वा स्मरस्य पञ्चशरी प्रियाकरे ( एव ) हैगुलपद्मतूणे अस्ति // 70 // व्याख्या - रज्यन्नखस्य = स्वभावरक्तनखरस्य, अङ्गुलिपञ्चकस्य करणाखापञ्चकस्य, मिषात् = व्याजात, असौ = पुरोवर्तिनी, हैमैकपुङ्खा = सौवर्णककर्तर्याख्यमूलप्रदेशा, विशुद्धपर्वा = निव्रणग्रन्थिः, सरलग्रन्थिरिति भावः / स्मरस्य = कामदेवस्य, पञ्चशरी = वाणपञ्चकं, प्रियाकरे = दमयन्तीपाणी, एव, हैगुलपद्मतूणे = हिङ्गलरक्तकमलतूणीरे, अस्ति = विद्यते // 70 // अनुवादः-स्वभावसे ही लाल नाखूनोंसे युक्त पाँच उंगलियोंके बहानेसे यह ( पुरोवर्ती ) एकमात्र कर्तरी नामक मूलप्रदेशवाले सरल ग्रन्थिसे युक्त कामदेवके पाँच बाण, दमयन्तीके हस्तरूप हिङ्गूलसे रंगे गये कमलरूप तरकसमें हैं / / 70 // . ___ टिप्पणी--रज्यन्नखस्य = रज्यन्तीति रज्यन्तः, "रज रागे" धातुसे "कुषिरजोः प्राचां श्यन्परस्मैपदं च" इस सूत्रसे कर्मकर्तामें यक् और आत्मनेपद के बदले श्यन् और परस्मैपद / रज+श्यन् +लट् ( शतृ ) + जस् / रज्यन्तो नखा यस्य, तस्य ( बहु० ) / अङ्गलिपञ्चकस्य = अङ्गलीनां पञ्चकं, तस्य (प० त० ) / हैमैकपुङ्खा = हेम्नो विकारा हैमा:, हेमन् + अण् + जम् / हैमा एके पुङ्खा यस्याः सा ( बहु० ) / 'कर्तरी पुङ्ख” इति यादवः / विशुद्धपर्वा = विशद्धानि पर्वाणि यस्याः सा ( बह० ) 'पर्व' का अर्थ शरके पक्ष में ग्रन्थि ( गाँठ ) और अङ्गलिके पक्षमें 'पोर' है। पञ्चशरी = पञ्चानां शराणां समाहार: ( द्विगुः ) / प्रियाकरे = प्रियायाः करः, तस्मिन् (प० त० ) / हैगुलपद्मतूणे = पद्मम् एव तूणम् ( रूपक० ), हिङ्गुलेन रक्त हैङ्गुलम्, "तेन रक्त रागात्” इस मूत्रसे अण् प्रत्यय / हैङ्गुलम् एव पद्मतूणं, तस्मिन् ( रूपक० ) / इस पद्यमें दमयन्तीके हाथको कामदेवके तरकसके रूपमें और दमयन्तीकी पाँच अगुलियोंको कामदेवके बाणोंके रूप में वर्णन किया है / इस पद्यमें कैतवाऽप. ति, रूपक और उत्प्रेक्षा इनका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है / / 70 // अस्याः करम्पर्शनधि ऋद्धिर्बालत्वमापत खलु पल्लवो यः। भूयोऽपि नामाऽधरसाम्यगर्व कुर्वन् कथं वाऽस्तु स न प्रवाल: ? / / 71 // अन्वयः-यः पल्लव: अस्या: करस्पर्शनधिऋद्धिः बालत्वम् आपत् खलु ! भूयोऽपि नाम अधरसाम्यगर्वं कुर्वन् स प्रवाल: कथं वा न अस्तु ? /