________________ 127 सप्तमः सर्गः पूर्वार्द्ध और उत्तरार्द्धमें दो उत्प्रेक्षाओंकी परस्पर अनपेक्षासे स्थिति होनेसे संसृष्टि अलङ्कार है / / 52 // अस्या मुखस्याऽस्तु न पूर्णिमाऽऽस्यं पूर्णस्य जित्वा महिमा हिमांशम् / भ्रलक्ष्मखण्डं वषवर्धमिन्दुर्भालस्तृतीयः खलु यस्य भागः / / 53 // अन्वयः-पूर्णिमाऽऽस्यं हिमांऽशुं जित्वा पूर्णस्य अस्या मुखस्य महिमा न अस्तु ? यस्य तृतीयो भागः भालः 5लक्ष्मखण्डं दधत् अर्धम् इन्दुः खलु // 53 // व्याख्या-पूर्णिमाऽऽस्यं = पौर्णमासीमुखीभूतं, हिमांऽशुं = चन्द्र, जित्वा = पराजित्य, स्थितस्येति शेषः / पूर्णस्य = समग्रस्य, अस्याः = दमयन्त्याः , मुखस्य = वदनस्य, महिमा = महत्त्वं, न अस्तु = न स्यात् ? काकुः स्यादेव जेतुमहिमेति भावः / (किं च) यस्य = मुखस्य, तृतीयो भागः = तृतीयांऽशभूतः, भाल: = ललाटं, भूलक्ष्मखण्डं = नेत्रलोमलाञ्छनैकदेशं, दधत् = दधानः, अर्द्धम् इन्दुः = अर्द्धचन्द्रः, खलु = निश्चयेन / अर्द्धचन्द्रात्पूर्णचन्द्रस्य महत्वं युक्तमिति भावः / / 53 // अनुवादः-पूर्णिमाके मुखभूत चन्द्रको जीतकर परिपूर्ण दमयन्तीके मुखका महत्त्व न हो ? ( है ही ) / जिस ( मुख) का तीसरा भाग ललाट भ्रूरूप कलङ्कखण्डको धारण करता हुआ अर्धचन्द्र होता है // 53 // टिप्पणी-पूर्णिमाऽऽस्यं पूर्णिमाया आस्यम् (ष० त०)। हिमांऽशुं = -हिमः अंशुः यस्य, तम् ( बहु० ) / महिमा = महत् + इमनिच् + सुः / तृतीयः = त्रयाणां पूरणः, त्रि + तीय+सुः। 5लक्ष्मखण्डं = लक्ष्मणः खण्डः (ष० त० ), धूरेव लक्ष्मखण्डः तम् (रूपक०) / दधत् = धा+ लट् (शतृ)+ सुः / दमयन्तीका मुख चन्द्रसे भी सुन्दर है और इनका भाल ( लिलार ) अर्धचन्द्रके सदृश है, यह तात्पर्य है। इस पद्यमें रूपक और उत्प्रेक्षाका अङ्गाङ्गिभावसे सङ्कर है // 53 / / व्यवत्त धाता मुखपद्ममस्याः सम्राजमाभोजकूलेऽखिलेऽपि / - सरोजराजो सृजरेऽसीयां नेत्राऽभिधेयावत एव सेवाम् // 54 // अन्वयः-धार: अस्या मुखपनम् अखिलेऽपि अम्भोजकुले सम्राजं व्यधत्त / अतएव नेत्राऽभिधेयौ सरोजराजो अदसीयां सेवां सृजतः // 54 / / व्याख्या-धांता = ब्रह्मा, अस्याः = दमयन्त्याः, मुखपद्म = वदनकमलं, अखिलेऽपि = समस्तेऽपि, अम्भोजकुले = कमलवर्गे, सम्राज = राजराजं, व्यधत्त = विहितवान् / अत एव = अस्मात् कारणात् एव, राजराजत्वात् एवेति