________________ सप्तमः सर्गः 125 व्याख्या- मृगाक्ष्याः = हरिणनयनायाः, अस्याः - दमयन्त्याः, कण्ठे = गले, वसन्ती = नित्यं सन्निहिता, चतुरा = निपुणा, सरस्वती = वाग्देवता, विपञ्ची = वीणां, यत्, वादयते = वादयति, तद् एव = वादनम् एव, वीणाध्वनिरेवेति भावः / मगाक्ष्याः = दमयन्त्याः, मुखे = वदने, वाग्भूय = वाग् भूत्वा, श्रोतुः = आकर्णयितुः, श्रुतौ = श्रोत्रे, सुधारसत्वम् = अमृतरसत्वं, यातिप्राप्नोति / दमयन्तीस्वरः वीणास्वरतुल्य इति भावः // 50 // ___ अनुवाद:-मृगके समान नेत्रोंवाली इस ( दमयन्ती ) के कण्ठमें सदा वास करनेवाली प्रवीण सरस्वती जो बीन बजाती हैं, वही वीणाका स्वर दमयन्तीके मुखमें वाणीके रूपमें परिणत होकर सुननेवालेके कानमें अमृतरसके भावको प्राप्त होता है // 50 // टिप्पणी-मृगाक्ष्याः = मृगस्येब अक्षिणी यस्याः, तस्याः ( व्यधि० बह० ) / वादयते = वद + णिच+ लट् +त। वाग्भूय = अवाग् वाग् यथा संपद्यते तथा भूत्त्वा, वाच+वि+भू+क्त्वा ( ल्यप् ) / "ऊर्यादिविडाचश्च" इस सूत्रसे गतिसंज्ञा होनेसे समास होकर 'क्त्वा' के स्थानमें ल्यप् / श्रोतुः = शृणोतीति श्रोता, तस्य, श्रू+तृच् + ङस् / सुधारसत्वं = सुधाया रसः (10 तं० ), तस्य भावः सुधारसत्वं, तत्, सुधारस+त्व+अम् / याति-या+लट+ तिम् / दमयन्तीका स्वर वीणास्वरके तुल्य है, यह भाव है। इस पद्यमें इव आदि व्यञ्जक शब्दका प्रयोग न होनेसे प्रतीयमानोत्प्रेक्षा अलङ्कार है // 50 // विलोकिताऽस्या मुखमुन्नमय्य किं वेधसेयं सुषमासमाप्तो। धृत्युद्भवा यच्चिबुके चकास्ति निम्ने मनागङगुलियन्त्रणेव // 11 // अन्वयः- इयं सुषमासमाप्तौ वेधसा अस्या मुखम् उन्नमय्य विलोकिता किम् ? यत् मनाक् निम्ने चिबुके धृत्युद्भवा अंगुलियन्त्रणा इव चकास्ति // 51 // व्याख्या--दमयन्त्याश्चिबुकं वर्णयति / विलोकितेति / इयं = दमयन्ती, सुषमासमाप्तौ = परमशोभानिर्माणाऽवसाने सति, वेधसा=ब्रह्मदेवेन, अस्याः= दमयन्त्याः, मुखं = वदनम्, उन्नमय्य = कियत् ऊर्वीकृत्य, विलोकिता किं = दृष्टा किम्, सौष्ठवपरीक्षाऽर्थमिति शेषः। यत् = यस्मात्, मनाक् = ईषत्, निम्ने = नते, चिबुके = अधराऽधोभागे, धृत्युद्भवा = निपीड्यग्रहणसंभवा, अङ्गलियन्त्रणा इव-करशाखामुद्रणा इव, अडगुष्ठपदमिवेति भावः / चकास्ति = शोभते // 51 // ...