________________ 124 नैषधीयचरितं महाकाव्यम् आस्यद्विजराज+तसिः, “आख्यातोपयोगे" इससे आपादानसंज्ञा होकर पञ्चमी / अधीयते-अधि+ इ + लट् ( कर्ममें )+त / कोयलके स्वरसे भी दमयन्तीका स्वर अत्यन्त मधुर है, यह भाव है / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 48 / / पद्माऽङ्कसमानमवेक्ष्य लक्ष्मीमेकस्य विष्णोः श्रयणात् सपत्नीम् / आस्येन्दुमस्या भजते जिताजं सरस्वती तद्विजिगीषया किम् ? // 49 // अन्वयः-सरस्वती एकस्य विष्णोः श्रयणात् सपत्नी लक्ष्मी पद्माऽङ्कसमानम् अवेक्ष्य तद्विजिगीषया जिताऽब्जम् अस्या आस्येन्दु.भजते किम् ? // 49 // व्याख्या-सरस्वती = वाग्देवता, एकस्य, विष्णोः = नारायणस्य पत्युरितिशेषः, श्रयणात् = आश्रयणात् हेतोः, सपत्नीम् = एकभर्तृका, लक्ष्मी = कमलां, पद्माऽङ्कसमानं = कमलोत्सङ्गनिकेतनाम्, अवेक्ष्य = दृष्ट्वा, तद्विजिगीषया = लक्ष्मीविजयेच्छया, जिताऽब्जं = कमलविजयिनम्, अस्याः = दमयन्त्याः / आस्येन्दुं = वदनचन्द्रं, भजते किम् = आश्रयते किम् ? दुर्बलोऽपि वैरनिर्यातनाऽर्थो प्रबलतरमाश्रयत इति भावः // 49 // अनुवादः-सरस्वती एक विष्णुका आश्रय लेनेसे सपत्नी ( सौत ) लक्ष्मी को कमलरूप उत्सङ्गमें रहनेवाली देखकर उनको जीतनेकी इच्छासे कमलको जीतनेवाले दमयन्तीके मुखचन्द्रका आश्रय लेती है क्या? // 49 // टिप्पणी-सपत्नीं = समानः ( एकः) पतिः यस्याः सा सपत्नी, ताम् ( बहु०)। “नित्यं सपत्न्यादिषु" इस सूत्रसे समानका सभाव डीप् और प्रातिपदिकका 'न' भाव भी निपातित हुआ है। पद्माऽङ्कसमानं = पद्मस्य अङ्कः (ष० त० ) स एव सद्म यस्याः सा, ताम् ( बहु० ) / अवेक्ष्य = अव+ईक्ष+ क्त्वा (ल्यप् ) / तद्विजिगीषया = तस्या विजिगीषा, तया (ष० त० ) / जिताऽब्ज = जितम् अब्जं येन, तम् ( बहु० ), आस्येन्दुम् = आस्यम् इन्दुरिव, तम् ( उपमित० ) / कमजोर भी शत्रुताका बदला लेनेके लिए जबर्दस्त व्यक्तिका आश्रय लेता है, यह भाव है। इस पद्यमें उत्प्रेक्षा अलङ्कार है // 49 / / कण्ठे वसन्ती चतुरा यवस्याः सरस्वती वादयते विपञ्चीम् / / तदेव वाग्भूय मुखे मृगाक्ष्याः श्रोतुः श्रुतो याति सुधारसत्वम् // 50 // अन्वयः-मृगाक्ष्या अस्याः कण्ठे वसन्ती चतुरा सरस्वती विपञ्चीं यत् वादयते, तद् एव मृगाक्ष्याः मुखे वाग्भूय श्रोतुः श्रुतौ सुधारसत्वं याति // 50 //