________________ सप्तमः सर्गः 129 टिप्पणी-शिरीषकोशात् = शिरीषस्य कोशः, तस्मात् (10 त०)। सुकुमारसर्गे = सुकुमाराणां सर्गः, तस्मिन् ( 10 त०), प्राप्तप्रकर्षः = प्राप्तः प्रकर्षों येन सः ( बहु० ) / मृदुत्वमुद्रां - मृदोर्भावो मृदुत्वं, मृदु+त्व / मृदुत्वस्य मुद्रा, ताम् (ष० त० ) / समापयत् = सम् + आप् + णिच् + लङ् + तिप् / दमयन्तीकी वाणीकी मिठास सबको मात करनेवाली है, यह भाव है // 47 // प्रसूनबाणाऽद्वयवादिनी सा कापि द्विजेनोपनिषत पिकेन / अस्याः किमास्य द्विजराजतो वा नाऽधीयते भक्षभुजा तरुभ्यः ? // 48 // अन्वयः-प्रसूनबाणाऽद्वयवादिनी काऽपि उपनिषत् सा तरुभ्यः भैक्षभुजा पिकेन द्विजेन अस्या आस्यद्विजराजतः न अधीयते वा किम् ? // 48 // व्याख्या-प्रसूनबाणाऽद्वयवादिनी = कामाऽद्वैतवादिनी, का अपि-अनिर्वचनीया, उपनिषत् = वेदरहस्यरूपा, सा = दमयन्तीवाणी, तरुभ्यः = आम्रादिवृक्षेभ्यः अपादानरूपेभ्यः, भैक्षभुजा = भिक्षासमूहभोजिना, पिकेन = कोकिलेन, द्विजेन = पक्षिणा विप्रेण च, अस्याः = दमयन्त्याः , आस्यद्विजराजतः = मुखचन्द्रात्, मुखरूपश्रेष्ठब्राह्मणात्, न अधीयते वा किम् = न पठ्यते वा किम् ? अधीयत एव इति भावः / / 48 / / अनुवाद:-ब्रह्मके अद्वैतका प्रतिपादन करनेवाली उपनिषद् ( वेद रहस्य ) को जैसे भिक्षान्नका भोजन करनेवाला ब्राह्मण श्रेष्ठ ब्राह्मण आचार्यसे अध्ययन करता है, वैसे ही कामके अद्वैतका प्रतिपादन करनेवाली अनिर्वाच्य उपनिषत्रूप उस दमयन्तीकी वाणीका आम्र आदि वृक्षोंसे पुष्पफलरूप भिक्षासमूहको खानेवाले कोयल पक्षी दमयन्तीके मुखचन्द्रसे क्यों अध्ययन नहीं करता है ? ( करता ही है ) // 48 // . __टिप्पणी–प्रसूनबाणाऽद्वयवादिनी = प्रसूनानि एव बाणा यस्य सः प्रसूनबाणः ( बहु० ) / अविद्यमानं द्वयं यस्य तत् अद्वयम् ( नब्बहु० ) = अद्वितीयं वस्तु / प्रसूनबाण एव अद्वयम् ( रूपक० ) / प्रसूनवाणाऽद्वयं वदतीति तच्छीला, प्रसूनबाणाऽद्वय+वद् + णिनिः ( उपपद० ) डीप् + सु / भैक्षभुजा = भिक्षाणां समूहः, भिक्षा शब्दसे "भिक्षादिभ्योऽण्" इस सूत्रसे अण् प्रत्यय / “भक्षं भिक्षाकदम्बकम्' इत्यमरः / भैक्षं भुनक्तीति भैक्षभुक्, तेन, भैक्ष + भुज् + क्विप् ( उपपद० )+ टा.। आस्यद्विजराजत: = द्विजानां राजा द्विजराजः ( 10 त० ), आस्यम् एव द्विजराजः ( रूपक० ) / आस्यद्विजराजात् इति आस्यद्विजराजतः,