________________ 122 नैषधीयचरितं महाकाव्यम् अनुवादः--जो कि दमयन्तीमें दांतोंकी पङ्क्तिमें सुपारी की लालिमा आदिके मार्जनसे उज्ज्वल ये चार राज दन्त ( श्रेष्ठ दाँत ) वैदिक ब्राह्मणोंकी शोभाको धारण कर रहे हैं, मैं इनको मोतीके समान जानता हूँ। वैदिक ब्राह्मण भी उद्वेग ( व्यग्रता ), विषयका अभिलाष, द्वेष आदिके मार्जनसे शुद्ध होकर मुक्त हो जाते हैं // 46 // टिप्पणी-उद्वेग-रागादिमजाऽवदाताः = उद्वेगस्य रागः (ष० त०), "घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु / फलमुद्वेगः" इत्यमरः / उद्वेगरागः आदिर्येषां ते ( बहु० ), आदिपदसे अन्य खाद्य पदार्थके लेपका संग्रह होता है / मार्जनं मजा, "मृष्शुद्धौ" धातुसे "षिद्भिदादिभ्योऽङ्:" इस सूत्रसे अ+ टाप् + सुः / उद्व गरागादीनां मृजा ( 10 त० ), तया अवदाताः ( तृ० त०)। राजदन्ताः = दन्तानां राजानः ( प० त०), "राजदन्ताऽऽदिषु परम्" इस सूत्रसे "राजन्” पदका पूर्व प्रयोग / श्रोत्रियविभ्रमं = छन्दः अधीयत इति श्रोत्रियाः, "श्रोत्रियंश्छन्दोऽधीते" इससे निपात। "श्रोत्रियंच्छान्दसौ समो" इत्यमरः / श्रोत्रियाणां विभ्रमः, तम् (10 त०)। संबिभ्रति = सं+ भृ+लट् + झिः / मुक्ताः = मुक्ता तु मौक्तिके, मुक्ताः प्राप्तमुक्ता तु मोचित" इति विश्व: / अवमि = अव+ इण् + लट् +मिप् / यहाँ पर "अवैमि" इसका वाक्यार्थ कर्म है / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 46 // शिरीषकोशादपि कोमलाया वेधा विधायाऽङ्गमशेषमस्याः। प्राप्तप्रकर्षः सुकुमारसर्गे समापयाचि मृदुत्वमुद्राम् // 47 / / . अन्वयः--वेधा: शिरीषकोशात् अपि कोमलाया अस्या अशेषम् अङ्गं विधाय सुकुमारसर्गे प्राप्त प्रकर्षः ( सन् ) मृदुत्वमुद्रां वाचि समापयत् // 47 // व्याख्या--अथ पद्यचतुष्टयेन भैम्या वाणीं वर्णयति शिरीषकोशादिति / वेधाः-विधाता, शिरीषकोशात् अपि = शिरीषकुड्मलात् अपि, कोमलायाःमदुलतरायाः, अस्याः = भैम्याः , अशेष = संपूर्णम्, अङ्ग = देहाऽवयवं, विधाय = कृत्वा, सुकुमारसर्गे = कोमलवस्तुसृष्टौ, प्राप्तप्रकर्षः = लब्धोत्कर्षः सन्, मृदुत्वमुद्रां = मार्दवभङ्गी, वाचि = भैमीवाण्यां, समापयत् = समापितवान्, अस्या वाङ्माधुर्य सकलपदार्थाऽतिशायीति भावः / / 47 // अनुवादः-प्रह्माजीने शिरीषके कुड्मलसे भी अत्यन्त कोमल दमयन्तीके समस्त अङ्गोंकी रचना कर कोमल पदार्थोकी रचनामें उत्कर्ष प्राप्त कर कोमलताकी मर्यादाको दमयन्तीकी वाणीमें समाप्त कर दिया // 47 //