________________ सप्तमः सर्गः 117 अन्वयः यत् अस्याः मध्योपकण्ठो अधरोष्ठभागौ किमपि उच्छ्वसितो भातः / तत् स्वप्नसंभोगवितीर्ण दन्तदंशेन मया न अपराद्धं किं वा ? // 40 // ___ व्याख्या—यत् = यस्मात्, अस्याः = दमयन्त्याः, मध्योपकण्ठौ = मध्यदेशसन्निहितौ, अधरोष्ठभागौ = अधरोष्ठप्रदेशो, तदुभयपावें इति भावः / किमपि = किञ्चित्, उच्छ्वसितौ = उच्छूनौ सन्तो, भातः = स्फुरतः / तत् = तस्मात्, स्वप्नसंभोगवितीर्णदन्तदंशेन = स्वापसमागमकृतदशनक्षतेन, मया, न अपराद्धं किं वा = न अपराधः कृतः किं वा? // 40 // अनुवादः-जो दमयन्तीके अधरोष्ठके मध्यसमीपके दोनों भाग कुछ सूजे हुए प्रतीत होते हैं, सो स्वप्नके समागममें दशनक्षत करनेवाले मैंने अपराध नहीं किया क्या ? // 40 // टिप्पणी-मध्योपकण्ठौ = मध्यस्य उपकण्ठौ (10 त०)। अधरोष्ठभागौ = अधरश्चाऽसौ औष्ठः (क० धा० ), तस्य भागौ ( 10 त० ) / उच्छ्वसितौ = उद्+ श्वस+क्तः+ ओ / भातः = भा+लट् + तस् / स्वप्नसंभोगवितीर्णदन्तदंशेन = स्वप्ने संभोगः ( स० त० ) / तस्मिन् वितीर्णः ( स० त० ) / दन्तस्य दंशः (10 त०)। स्वप्नसंभोगवितीर्णः दन्तदंशः येन; तेन ( बहु०) / अपराद्धम् = अप+राध+ क्तः + सुः / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 40 // ... विद्या विदर्भेन्द्रसुताऽधरोष्ठे नत्यन्ति कत्यन्तरभेदभाजः / ___ इतीव रेखाभिरपश्रमस्ताः संख्यातवान कौतुकवान् विधाता // 41 // अन्वयः—कौतुकवान् विधाता विदर्भेन्द्रसुताऽधरोष्ठे कति विद्या अन्तरभेदभाजः ( सत्यः ) नृत्यन्ति अपश्रमः ( सन् ) ता रेखाभिः संख्यातवान् इव किम् ? // 41 // व्याख्या-कौतुकवान् = कुतूहलसम्पन्नः, विनोदीति भावः। विधाता = ब्रह्मदेवः, विदर्भेन्द्रसुताऽधरोष्ठे = भैम्यधरोष्ठे, कति = कियत्यः, विद्याः = वेदादिविद्याः, अन्तरभेदभाजः = अवान्तरभेदयुक्ताः सत्यः, नृत्यन्ति = नृत्यं कुर्वन्ति, विहरन्तीति भावः, इति बुभुत्सयेति शेषः / अपश्रमः = श्रमरहितः सन्, ताः = विद्या:. रेखाभिः = लेखाभिः, संख्यातवान् इव किं = गणितवान् इब किम् ? अन्यथा वृथा रेखासृष्टि: स्यादिति भावः // 41 / / ___ अनुवादः-विनोदी ब्रह्माजीने दमयन्तीके अधरोष्ठमें कितनी विद्याएं