________________ नैषधीयचरितं महाकाव्यम् दमं भजतीति द्रमभाक, तस्मिन् / द्रुम + भ+ण्विः (उपपद०)+ङि / संभाव्य. माना = सं+भू+णि+लट् ( शानच् ) ( कर्ममें)+टाप् + सुः / विद्रुमे= "विद्रुमः पुंसि, प्रवालं पुनपुंसकम् / " इत्यमरः / विगता द्रुमा यस्मात, तस्मिन् ( बहु० ), दमयन्तीकी अधरशोभा विद्रुम ( मूगा) की सदृश है, यह भाव है। इस पद्यमें रूपक, उपमा और श्लेषकी संसृष्टि है / इन्द्रवज्रा छन्द है // 38 // जानेऽतिरागादिदमेव बिम्ब, बिम्बस्य च व्यक्तमितोऽधरत्वम् / द्वयोविशेषाऽवगमाऽक्षमाणां नाम्निभ्रमोऽभूदनयोजनानाम् // 39 // अन्वयः-अतिरागात् इदम् एव बिम्ब, बिम्बस्य च इत: अधरत्वं व्यक्तम् / ( एवं स्थिते ) द्वयोः अनयोः विशेषाऽवगमाऽक्षमाणां नाम्नि भ्रमः अभूत्, जाने / / 39 // ____ व्याख्या-अतिरागात् = लौहित्याऽतिशयाद्धेतोः, इदं = सन्निकृष्टस्थं, दमयन्त्यधरोष्ठरूपम्, एक, बिम्ब = बिम्बनामाऽहं फलं, बिम्बस्य च = तथा प्रसिद्धस्य बिम्बफलस्य च, इतः दमयन्त्यधरोष्ठात्, अधरत्वम् = अपकृष्टत्वम्, व्यक्तं = स्फुटम् / एवं स्थिते द्वयोः = उभयोः, अनयोः = अधर-बिम्बयो म्नोः विषये, विशेषाऽवगमाऽक्षमाणां = विशेषज्ञानाऽसमर्थानां जनानां, नाम्नि = संज्ञाविषये, भ्रमः = भ्रान्तिः, अभूत् = संजात इति, जाने = जानामि // 39 // ___अनुवादः--अत्यन्त लाल होनेसे यही दमयन्तीका अधरोष्ठ बिम्बफल है और बिम्बफलकी इससे हीनता स्फुट है। इस स्थिति में दमयन्तीके अधरोष्ठ और बिम्बफलके भेद समझनेमें असमर्थ जनोंको नामके निर्धारणमें भ्रम हुआ है मैं ऐसा समझता हूँ // 39 // टिप्पणी-अतिरागात् = अतिशयितो रागः, तस्मात् (गति०) / अधरत्वम्अधरस्य भावः, अधर + त्व। विशेषाऽवगमाऽक्षमाणां = विशेषस्य अवगमः (10 त०)। न क्षमा अक्षमाः ( नञ् ) / विशेषाऽवगमे अक्षमाः, तेषाम् ( स० त० ) / दमयन्तीके अधरसे बिम्बफल अधर ( निकृष्ट ) है, अधर और बिम्ब इनका भेद समझनेमें असमर्थ लोगोंको भ्रान्ति होनेसे वे बिम्बफलको दमयन्तीके अधरका उपमान समझने लगे यह भाव है। इस पद्यमें उत्प्रेक्षा अलङ्कार है / उपजाति छन्द है / / 39 / / मध्योपकण्ठावधरोष्ठभागो भातः किमप्युच्छवसितो यदस्याः / तत्स्वप्नसंभोगवितोणदन्तदंशेन किं वा न मयाऽपराद्धम् ? : 40 //