________________ सतमः सर्गः 115 अधरोष्ठः / अधरोष्ठस्य लेखा (प० त०)। मुखेन्दुना = मुखम् इन्दुः इव; तेन ( उपमित० ) / उज्जिहानम्-उज्जिहीत इति उज्जिहानम्, उद्+ओहाङ्+ लट् ( शानच् ) + अम् / बन्धूकबन्धूभवत् = बन्धूकस्य बन्धुः (10 त०), "बन्धूकं बन्धुजीवकम्" इत्यमरः / अबन्धूकबन्धुः बन्धूकबन्धुः यथा संपद्यते तथा भवत्, बन्धूकवन्धु + च्चि+भू + लट् ( शतृ) + सुः / रागश्रिया = रागस्य श्रीः, तया (प० त०)। शैशवयोवनीयां = शिशोर्भाव: शैशवम् ( शिशु+ अण्+सुः)। यूनो भावो यौवनं (युवन् + अण+सुः)। शैशवं च यौवनं च शैशवयौवने ( द्वन्द्व० ) शैशवयौवनयोर्भवा शैशवयौवनीया, ताम ( शैशवयौवन+छ ( ईयः )+ टाप् + अम् / इस पद्यमें दिन और रातकी सन्धिके समान वाल्य और यौवनकी सन्धिमें होनेवाली सन्ध्या अपने राग ( लालिमा ) की समृद्धिसे स्मयम् मानों अपनेको बतलाती है, इस प्रकार उत्प्रेशापजक शब्द 'इव' आदिके न रहनेसे यह प्रतीयमानोत्प्रेक्षा अलङ्कार है // 37 / / अस्या मुखेन्दोरघरः सुधाभूबिम्बस्य युक्तः प्रतिबिम्ब एषः। तस्याऽथ वा श्रीर्दुमभाजि देशे संभाव्यमानाऽस्य तु विद्रुमे सा // 38 // अन्वयः-अस्या एषः अधरः मुखेन्दोः सुधाभूः बिम्बस्य प्रतिबिम्बः युक्तः / तस्य श्रीः द्रुमभाजि देशे संभाव्यमाना, अस्य तु सा विद्रुमे संभाव्यमाना // 38 // ---- व्याख्या-अस्याः=दमयन्त्याः, एषः = अतिसमीपवर्ती, अधरः = अधरौष्ठः, मुखेन्दोः = वदनचन्द्रस्य, सुधाभूः = अमृताऽऽविर्भावी, बिम्बस्य = बिम्बफलस्य, प्रतिबिम्बः = सदृशः, युक्तः = उचितः, न तु बिम्बफलात्कश्चिद्विशेषोऽस्तीत्यर्थः / तस्य = बिम्बफलस्य, श्रीः = शोभा, द्रुमभाजि = द्रुमवति, देशे = प्रदेशे, संभाव्यमाना = संभावनाविषयीभूता, अस्य = अधरस्य, तु, सा = श्रीः, विद्रुमे = प्रवाले, द्रुमरहितप्रदेशे च, संभाव्यमाना = संभावनाविषयीभूता // 38 // अनवाद:-ईस ( दमयन्ती ) का यह अधरोष्ठ, मुखरूप चन्द्रमाके अमृतमें उत्पन्न बिम्बक के सदृश है / विम्बफलकी शोभाकी तुम ( वृक्ष वाले देगमें संभावना की जाती है, इस अधरोष्ठ की शोभाकी तो विद्रुम ( मूगा ) में वा द्रुम ( वृक्ष ) रहित देशमें संभावना की जाती है // 38 // __ टिप्पणी-मुखेन्दोः = मुखम् एव इन्दुः, तस्य ( रूपक० ) / सुधाभूः = सुधायां भवतीति, सुधा + भू + क्विप् ( उपपद०) + सुः / द्रुममाजि =