________________ सप्तमः सर्गः 1.1 अन्वयः-अस्याम् अभिकेन मघोना प्रत्यङ्गं रक्षां कर्तुं नियोजितं भूषामणिमूर्तिधारि निजाऽस्त्रं वजं तद्युतिकार्मुकं च अस्ति इव // 19 // __व्याख्या-अस्यां = दमयन्त्याम्, अभिकेन = कामुकेन, मघोना = इन्द्रेण, प्रत्यङ्ग = दमयन्त्याः प्रतिदेहाऽवयवं, रक्षां = रक्षणं, कतुं = विधातुं, नियोजितं नियमितं, भूषामणिमूर्तिधारि-भूषणवादिरत्नाकारधारकं, निजाऽस्त्रं = स्वायुध, वज्र, तद्युतिकार्मुकं च = तन्मणिकान्तिधनुश्च इन्द्रायुधं चेति भावः / अस्ति इव = विद्यत इव // 19 // अनुवाद:-दमयन्तीमें कामुक इन्द्रने उनके प्रत्येक अङ्गकी रक्षा करनेके लिए नियोजित भूषणके वज्र (हीरा ) आदि रत्नोंके आकारको धारण करनेवाला अपना अस्त्र वज्र और उस मणिका कान्तिरूप धनु भी विद्यमान है क्या ? ऐसा मालूम पड़ता है // 19 // टिप्पणी-अभिकेन = अभिकामयत इत्यभिकः, तेन “अनुकाऽभिकाऽभीकः कामयिता" इससे निपातन / “कम्रः कामयिताऽभीकः कमनः कामनोऽभिकः / " इत्यमरः / भूषामणिमूर्तिधारि = भूषाणां मणयः ( 10 त० ) / मूर्ति धारयतीति मूर्तिधारि ( मूर्ति+धृ + णिच् + णिनिः + सुः)। भूषामणीनां मूर्तिधारि (ष० त० ) / निजास्त्रं = निजं च तत् अस्त्रम् ( क० धा०)। तद्दयुतिकार्मुकंतेषां ( मणीनाम् ) युतयः (10 त० ), ता एव कार्मुकम् ( रूपक० ) / इस पद्य में इन्द्रके नियोगसे भूषणके मणि ( वज्र = हीरा ) और उसकी कान्तिके छलसे अन्तःपुरकी रक्षाके लिए वज्र अस्त्र और इन्द्रधनु भी दमयन्तीके प्रत्येक अङ्गको परिवेष्टन कर मानों रहते हैं, ऐसा कहनेसे उत्प्रेक्षा अलङ्कार है // 19 // . अस्याः सपक्षेकविधोः कचौघः स्थाने मुखस्योपरि वासमाप / पक्षस्थतावबहुचन्द्रकोऽपि कलापिनां येन जित. कलापः // 20 // अन्वयः-अस्याः कचौघः साक्षकविधोः मुखस्य उपरि वासम् आप स्थाने / येन पक्षस्थतावदबहुचन्द्रकः अपि कलापिनां कलापः // 20 // व्याख्या-अथ सर्गसमाप्तिपर्यन्तं दमयन्त्याश्चिकुरादिपादनखाऽन्तवर्णनमारभते --अस्या इति / तत्र श्लोकत्रयेण केशान् वर्णयति / अस्याः = दमयन्त्याः , कचौधः = केशपाशः / सपक्षकविधोः = सदर्शकचन्द्रस्य, मुखस्य = वदनस्य, उपरि - ऊर्श्वभागे, शिरसीति भावः / वासं = स्थितिम्, आप = प्राप्तवान्, स्थाने = युक्तम् / कुतः ? येन = कचौघेन, पक्षस्थतावद्बहुचन्द्रकः = गरुन्निष्ठतत्परिमाणाऽधिक मेचकः, पक्षे-स्ववर्गस्थतत्परिमाणाऽधिकचन्द्रः,