________________ सप्तमः सर्गः व्याल्या - यत् = यस्मात्कारणात्, अस्याः = भम्याः, अङ्गः-शरीराऽवयवः, साम्ये सति एव -- तुल्यत्वे विद्यमान एव, अशेषात् = समस्तात्, सदृशात् = तुल्यात्, चन्द्रादेरिति भावः / गुणान्तरेण = केनाऽपि गुणविशेषेण, उच्चकृषेउत्कृष्टैरभावीति भावः / ततः = उत्कृष्टत्वाद्धेतोः, तुलना अपि = समीकरणम् अपि, स्यात् नाम = भवेत् नाम ? ( न स्यादेवेति भावः ) / वस्तुतस्तु - परमाऽर्थतस्तु, अमीषां = दमयन्त्या अङ्गानाम्, उपमा = तुलना, अवमानः = अपमानः, उत्कृष्टानां निकृष्टः सह समताऽऽपादनमपमान एवेति भावः / / 14 // अनुवाद:-जिस कारणसे दमयन्तीके अङ्ग समता होनेपर ही समस्त तुल्य (चन्द्र आदि) पदार्थसे विशेष गुणसे उत्कृष्ट हो गये / उनके उत्कृष्ट होनेसे तुलना भी होगी क्या ? ( नहीं ) वास्तवमें तो इन ( दमयन्तीके अङ्गों) की तुलना करना अपमान है // 14 // ___ टिप्पणी साम्य = समस्य भावः साम्यं, तस्मिन्, सम+व्यञ् + डि / सदृशात् = "पञ्चमी विभक्तेः" इससे पञ्चमी / गुणाऽन्तरेण = गुणस्य अन्तरं, तेन (10 त० ) / उच्चकृषे = उद् + कृष+लिट् ( भावमें )+त / स्यात् = अस्+विधिलिङ्+तिप् / दमयन्तीके उत्कृष्ट मुख आदि अङ्गोंका निकृष्ट चन्द्र आदिसे तुलना करना वास्तवमें अपमान है, यह तात्पर्य है // 14 // पुराकृतिस्त्रैणमिमां विधातुमभूद्विधातुः खलु हस्तलेखः / येयं भवद्भाविपुरन्ध्रिसृष्टिः साऽस्य यशस्तज्ज्यजं प्रदातुम // 15 // अन्वयः-विधातुः पुराकृतिस्त्रणम् इमां विधातुं हस्तलेखः अभूत् खलु / या इयं भवद्भाविपुरन्ध्रिसृष्टि: सा अस्य तज्जयजं यशः प्रदातुम्, ( अस्ति ) // 15 // ___ व्याख्या-विधातुः = ब्रह्मदेवस्य, पुराकृतिस्त्रणं = पूर्वसृष्टी स्त्रीसमूहः, इमां = दमयन्ती, विधातुं = स्रष्टुं, हस्तलेखः = प्रथमाऽभ्यासः, अभूत-सञ्जातः, खलु = निश्चयेन / या, इयम् = एषा, भवद्भाविपुरन्ध्रिसृष्टिः विद्यमानभविष्यत्स्त्रीनिर्मितिः, सा= निर्मितिः, अस्य = दमयन्त्यै, तज्जयजं = पुरन्ध्रीविजयजन्यं, यशः कीर्तिः, प्रदातुं = वितरीतुम्, अस्तीति शेषः // 15 // ___ अनुवादः-ब्रह्माजीकी पूर्वसृष्टिमें स्त्रीसमूह दमयन्तीकी रचना करनेके लिए प्रथम अभ्यासके रूप में हो गया था, जो यह वर्तमान और पीछे होनेवाली स्त्रियोंकी रचना है, वह इन ( दमयन्ती) को उन स्त्रियोंके विजयसे उत्पन्न यशको देनेके लिए है // 15 // 7 नै० स०