________________ सतमः सर्गः तन्मृगनाभिलेपतमसा समासादितदिग्भ्रमा (तृ० त०) / बभौतमां="भा दीप्तो" धातुसे लिट्में "तिङश्च" इस सूत्रसे तमप् प्रत्यय होकर "किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे” इस सूत्रसे आमु प्रत्यय / इस पद्यमें रूपक और उत्प्रेक्षाका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है / उपेन्द्रवज्रा छन्द है // 6 // विभ्रम्य तच्चारनितम्बचके दूतस्य दृक् तस्य खलु स्खलन्ती। स्थिरा चिरादास्त तदूरुरम्भास्तम्भावुपाश्लिष्य करेण गाढम् // 7 // अन्वयः-दूतस्य तस्य दृक् तच्चारुनितम्बचक्रे विभ्रम्य स्खलन्ती तदूरुरम्भास्तम्भौ करेण गाढम् उपाश्लिष्य स्थिरा ( सती ) चिरात् आस्त खलु // 7 // व्याख्या-दूतस्य = सन्देशहरस्य, इन्द्रादिलोकपालानामिति शेषः / तस्य = नलस्य, दृक् = दृष्टिः, तच्चारुनितम्बचक्रे = दमयन्तीसुन्दरकटिपश्चाद्भागमण्डले, विभ्रम्य = भ्रान्त्वा, स्खलन्ती = सञ्चलन्ती, तदूरुरम्भास्तम्भौ = दमयन्तीसक्थिकदलीस्तम्भौ, करेण = किरणेन हस्तेन च, गाढं = दृढम् उपाश्लिष्य = आलिङ्गय, स्थिरा = निश्चला ( सती), चिरात् = चिरकालम्, आस्त = उपविष्टा, खलु = निश्चयेन // 7 // अनुवाद:-इन्द्र आदि दिक्पालोंके दूत नलके नेत्र दमयन्तीके सुन्दर नितम्बमण्डलमें भ्रमण कर फिसलते हुए दमयन्तीके ऊरुरूप कदलीस्तम्भोंको कर ( किरण वा हाथ ) से दृढतापूर्वक आलिङ्गन करके स्थिर होकर बहुत समयतक रहे // 7 // टिप्पणी-तच्चारुनितम्ब चक्रे नितम्ब एव चक्रम् (रूपक०), चारु च तत् नितम्बचक्र ( क० धा० ) / तस्याः चारुनितम्बचक्रं, तस्मिन् (10 त०)। विभ्रम्य = वि = भ्रम+क्त्वा ( ल्यप् ) / स्खलन्ती-स्खल+ लट् ( शतृ )+ डीप् + सुः / तदूरुरम्भास्तम्भौ = तस्या ऊरू ( 10 त०)। रम्भायाः स्तम्भौ (ष० त० ) / तदूरू एव रम्भास्तम्भौ, तो (क० धा०) / करेण = "बलिहस्तांत शवः कराः" इत्यमरः / उपाश्लिष्य = उप+ आङ्+श्लिष+क्त्वा ( ल्यप् ) / आस्त = आस,+ लङ्+त / इस पद्यमें दृष्टिके विशेषणकी समतासे भ्रमणक्रीडा करनेवाली बालिकाकी प्रतीति होनेसे समासोक्ति है, उसका "ऊरुस्तम्भौ" यहाँ पर रूपक अङ्ग है, इस प्रकार अङ्गाङ्गिभावसे सङ्कर अलङ्कार है / जैसे बालिका क्रीडासे बहुत समयतक चक्रपर घूमती हुई फिसलकर निकट स्थित स्तम्भ