________________ सप्तमः सर्गः व्याख्या-नलस्य = नैषधस्य, दृष्टिः = नेत्रं, तस्याः = दमयन्त्याः, मुखेन्दोः = वदनचन्द्रस्य, आलोकपीयूषरसेन = दर्शनाऽमृतस्वादेन, रागाऽम्बुनिधौ = अनुरागसमुद्रे, चिरं = बहुकालं, बेलां = मर्यादाम, अतिक्रभ्य - उल्लङ्घय, विवृत्ते = प्रवृद्ध सति, तुङ्गो = उन्नती, कुचौ = स्तनौ, आश्रयति स्म = आश्रितवती, मुखलग्ना दृष्टी रागवशात्कुचयोः पपात इति भावः / / 4 // - अनुवाद:-नलके नेत्रने दमयन्तीके मुखरूप चन्द्रके दर्शनरूप अमृतके रससे अनुरागरूप समुद्रके बहुत समय तक मर्यादाको लङ्घन कर बढ़नेपर उसके ऊँचे कुचोंका आश्रय लिया // 4 // ___ टिप्पणी-मुखेन्दोः = मुखम् एव इन्दुः, तस्य ( रूपक० ) आलोकपीयूषरसेन = आलोकः ( दर्शनं प्रकाशश्च ) एव पीयूषम् ( रूपक० ) / “आलोको दर्शनद्योतो" इत्यमरः / आलोकपीयूषस्य रसः, तेन (ष० त० ) / रागाऽम्बुनिधौ अम्बूनां निधिः ( ष० त० ) / राग एव अम्बुनिधिः, तस्मिन् ( रूपक० ) / बेलां = "बेला कालमर्यादयोरपि" इति विश्वः / दमयन्तीके मुखपर लगी नलकी दृष्टि अनुरागवश कुचोंपर पड़ गयी, यह भाव है / इस पद्यमें दष्टिके विशेषणकी समानतासे चन्द्रोदयमें समुद्रके जलकी वृद्धि होने पर ऊँचे आश्रयस्थानकी प्रतीति होनेसे समासोक्ति अलङ्ककार है, उससे मानों समुद्रमें डूबनेके भयसे इस प्रकार उत्प्रेक्षा व्यङ्गय होती है। अतः अलङ्कारसे अलंकारकी ध्वनि है // 4 // मग्ना सुषायां किम् तन्मुखेन्दोलंग्ना स्थिता तत्कुचयोः किमन्तः / चिरेक तन्मध्यममुञ्चताऽस्य दृष्टिः क्रशीयः स्खलनाद् भिया नु // 5 // अन्वयः-अस्य दृष्टिः तन्मुखेन्दोः सुधायां मग्ना किमु ? तत्कुचयोः अन्तःलग्ना किम् ? क्रशीयः तन्मध्यं स्खलनात् भिया नु चिरेण अमुञ्चत // 5 // व्याख्या -अस्य = नलस्य, दृष्टिः = नयनं, तन्मुखेन्दोः = दमयन्तीवदनचन्द्रस्य, सुधायाम् = अमृते, मग्ना किमु = निमग्ना किम् ? तत्कुचयोः - दमयन्तीस्तनयोः, अन्तः = अध्यन्तरे, लग्ना कि = स्थिता किमु ? अन्यथा कथं तावान्विलम्ब इति भावः। क्रशीयः = कृशतरं, तन्मध्यं = दनवनवजान ( कर्म ), स्खलनात् = पतनात्, भिया नु = भीत्या किं, चिरेण = बहुकालानन्तरम्, अमुञ्चत = त्यक्तवती // 5 //