________________ 49 सप्तमः सर्गः प्रतिप्रतीकं प्रथमं प्रियायामथाऽन्तरानन्दसुषासमुद्र। ततः प्रमोदाऽऽपरम्पराया ममज्जतुस्तस्य दशौ नृपस्य // 2 // अन्वयः-तस्य नृपस्य दृशौ प्रथमं प्रियायां, प्रतिप्रतीकं ममज्जतुः / अथ अन्तः आनन्दसुधासमुद्रे ममजतुः / ततः प्रमोदाऽश्रुपरम्परायां ममज्जतुः // 2 // व्याख्या - तस्य पूर्वोक्तस्य, नृपस्य = राज्ञो नलस्य, दृशौ = नेत्रे, प्रथम प्राक्, प्रियायां = दमयन्त्यां, तत्राऽपि प्रतिप्रतीकं = प्रत्यवयवं, ममज्जतुः = अवगाढवत्यौ, दमयन्तीं नलोऽवयवशो ददर्शति भावः / अथ तदनन्तरम्, अन्तःअन्तरात्मनि, आनन्दसुधासमुद्रे = हर्षाऽमृतसागरे, ममज्जतुः = अवगाढवत्यो, करणभूतयोर्दू शोः कर्तृत्वोपचारः / ततः = अनन्तरं, प्रमोदाऽश्रुपराम्परायाम = आनन्दवाष्पप्रवाहे, ममज्जतुः = अवगाढवत्यौ // 2 // अनुवादः -- राजा नलके नेत्र पहले दमयन्तीमें, उसके प्रत्येक अवयवोंमें. अनन्तर अन्तःकरणमें उत्पन्न आनन्दरूप अमृतके समुद्रमें, तब हर्षाऽश्रुको परम्परामें निमग्न हो गये। टिप्पणी-प्रतिप्रतीकं = प्रतीकं प्रतीकं, वीप्सामें अव्ययीभाव / “अङ्ग. प्रतीकोऽवयवोऽपद्यनः" इत्यमरः। ममज्जतुः = मस्ज+लिट् + अतुस् / नलने दमयन्तीके एक-एक अवयवको देखा यह तात्पर्य है। आनन्दसुधासमुद्रे = आनन्द एव सुधा (रूपक० ) तस्याः समुद्रः, तस्मिन् (ष० त०)। नलके नेत्रोंने दर्शन-फल आनन्दका अनुभव किया यह भाव है। यहाँ पर नेत्ररूप करणमें कर्तृत्वका उपचार (लक्षणा) है। प्रमोदाऽश्रुपरम्परायांप्रमोदेन अश्रूणि (तृ० त०), तेषां परम्परा, तस्याम् (10 त०)। यहाँपर दृग-रूप एक आधेयका प्रियाके अवयव आदि अनेक आधारोंमें रहनेका वर्णन करनेसे पर्याय अलङ्कार है / उसका लक्षण है "क्वचिदेकमनेकस्मिन्ननेकं चैकगं क्रमात् / भवति क्रियते वा चेत्तदा पर्याय इष्यते।" 10-79 // 2 // उपेन्द्रवज्रा छन्द है। ब्रह्माद्धयस्याऽन्वभवत्प्रमोदं रोमाऽन एवाऽग्रनिरोक्षितेऽस्याः। यथोचितीत्थं तवशेषवृष्टावथ स्मराऽद्वैतमुदं तथाऽसौ // 3 // अन्वयः -असौ अस्या रोमाऽग्रे एव अग्रनिरीक्षिते. ब्रह्माऽद्वयस्य प्रमोदम् अन्वभवत् / अथ तदशेषदृष्टौ तथा स्मराऽद्वैतमुदम् अन्वभवत् / इत्थम् औचिती // 3 //