________________ सप्तमः सर्गः गजवदनं सुखसदनं, प्रत्यूहव्यूहमस्यन्तम् / गिरिजागिरीशतनयं गुणगणलसितं गणाऽधिपं वन्दे // 1 // अथ प्रियाऽसावनशीलनाऽवी मनोरथः पल्लवितश्चिरं यः / विलोकनेनैव स राजपुत्र्याः पत्या भुवः पूर्णवदभ्यमानि // 1 // अन्वयः--अथ भुवः पत्या प्रियाऽसादनशीलनादौ यो मनोरथः चिरं पल्लवितः, स राजपुत्र्या विलोकनेन एव पूर्णवत् अभ्यमानि / व्याल्या-अथ इन्द्रदूतीगमनाऽनन्तरं, भुवः = पृथिव्याः, पत्या-स्वामिना, नलेनेति भावः / प्रियाऽऽसादनशीलनादौ = दमयन्तीप्राप्तिपरिचयप्रभृतौ विषये यः, मनोरथः = अभिलाषः, चिरं-बहुकालादारभ्य, पल्लवितः = सञ्जातपल्लवः आसीत्, सः = मनोरथः, राजपुत्र्याः = दमयन्त्याः , विलोकनेन एव = दर्शनेन एव, पूर्णवत् = फलितवत्, अभ्यमानि = अभिमतः // 1 // ___अनुवाद:-इन्द्रकी दूतीके जानेके अनन्तर राजा नलका दमयन्तीकी प्राप्ति और परिचय आदिके विषयमें जो अभिलाष बहुत समयसे पल्लवित हुआ था, उसको उन्होंने दमयन्तीके दर्शनसे ही फलितके समान जाना // 1 // टिप्पणी-पत्या = "पतिः समास एव" इस सूत्रके अनुसार पति शब्दका समासमें ही घीसंज्ञक होनेसे यहांपर समास न होनेसे 'टा' के स्थानमें 'ना'का अभाव। प्रियाऽऽसादनशीलनादौ = आसादनं च शीलनं च ( द्वन्द्वः ), आसादनशीलने (10 त० ), ते आदी यस्य सः (बहु०), तस्मिन् / यहाँपर "आदि" शब्दसे आलिङ्गन आदिका संग्रह होता है। पल्लवितः = पल्लवानि संजातानि अस्य सः ( पल्लव+ ईतच्+सुः)। राजपुत्र्याः = राज्ञः पुत्री, तस्याः (10 त०)। पूर्णवत् = पूर्णेन तुल्यं, पूर्ण+वतिः / अभ्यमानि% अभि+ मन् + लुङ् + ( कर्ममें )+ त / उपजाति छन्द है // 1 // .