SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ नेवधीयचरितं महाकाव्यम् उपनीतम् = बानीतम्, इत्थम् = उक्तरीत्या, बालारागवागुत्थं = भैम्यनुरागवचनोत्पन्नं, मधु = क्षौद्रम्, आनन्दसान्द्रः = गाढानन्दनिमग्नः सन्, पातु - पानं कर्तुम्, अलभत - लब्धवान् // 112 // __अनुवादः-निषधेश्वर नलने लोकपालोंकी कृपासे प्राप्त ऐसे अदृश्य सामीप्यसे अपने दो श्रोत्रइन्द्रिरूप पात्रोंसे अच्छी तरह लाये गये इस प्रकारसे दमयन्तीके अनुरागवचनसे उत्पन्न मधु ( शहद ) को गाढ आनन्दमें निमग्न होकर पान करने के लिए प्राप्त किया // 112 // टिप्पणी-निषधजनपदेन्द्रः - निषधाश्च ते जनपदाः ( क. धा० ), तेषाम् इन्द्रः (10 त०)। दिगधिपकृपया दिशाम् अधिपाः, (10 त० ), तेषां कृपा, (ष० त०) तया / आत्तात् = आङ+दा+क्तः+ ङसि / ईदृशः = इदम् + दृश् + क्विन् + ङसिः / श्रवणपुटयुगेन = श्रवणे एव पुटे ( रूपक० ), तयोर्युगं, (ष० त०), तेन / बालारागवागुत्थं = रागस्य वाचः (10 त०), बालाया रागवाचः (10 त०) ताभ्य * उत्तिष्ठतीति, बालारागवाच्+उ+स्था+ क्तः ( उपपद०),+सुः / आनन्दसान्द्रः = आनन्देन सान्द्रः (तृ० त० ) / पातु = पा+तुमुन्, लभ धातुके योगमें "शकधृषज्ञाग्लाघटरभलभक्रमसहाहोऽस्त्यर्थेषु तुमुन्" इस सूत्रसे तुमुन् / अलभत = लभ % लङ्+त // 112 // बोहर्ष कविराजराजिमुकुटाग्लकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / षष्ठः खण्डनखण्डतोऽपि सहजात् क्षोदक्षमे तन्महा काव्ये चारुणि नैषधीयचरिते सर्गोऽगमनास्वरः॥ 113 // इति नैषधीयचरिते महाकाव्ये षष्ठः सर्गः। अन्वयः–कविराजराजिमुकुटाऽलङ्कारहीरः श्रीहीरः मामल्लदेवी च जितेन्द्रिपचयं यं श्रीहर्ष सुतं सुषुवे / सहजात् खण्डनखण्डतः अपि क्षोदक्षमे तन्महाकाव्ये चारुणि नैषधीयचरिते भास्वरः षष्ठः सर्गः अगमत् // 113 // व्याख्या-कविराजराजिमुकुटाऽलङ्कारहीरः = पण्डितश्रेष्ठश्रेणीकिरीटभूषणवजमणिः, श्रीहीरः = श्रीहीरनामकः, मामल्लदेवी च = मामल्लदेवीनाम्नी च। जितेन्द्रियचयं = वशीकृतहृषीकसमूह, श्रीहर्ष = श्रीहर्षनामकः, सुतंपुत्रं, सुषुवे = जनयामास। सहजात् = सोदरात्, समानकर्तृ कादिति भावः / खण्डनखण्डतः अपि - खण्डनखण्डखाद्यात् ग्रन्थात् अपि, क्षोदक्षमे = संघर्षणसहे,
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy