________________ षष्ठः सर्गः प्रादिषि = प्र+दा + लुङ् + इट् / “स्थाध्वोरिच्च" इससे इकार / नराय = न विद्यते र: यस्मिन् ( नब्बहु० ), र से रहित नर अर्थात् नल। अथवा 'र' और 'ल' के अभेदसे नल / इस पद्यमें श्लेष अलङ्कार व्यङ्गय है // 95 // तस्मिन् विमृश्येव वृत हृदेषा नेन्द्री दया मामनुतापिकाऽभूत् / निर्वातुकामं भवसंभवानां घोरं सुखानामवधोरणेव / / 96 // अन्वयः-तस्मिन् हृदा विमृश्य एव वृते एषा ऐन्द्री दया निर्वातुकामं धीरं भवसंभवानां सुखानाम् अवधीरणा इव माम अनुतापिका न अभूत् // 96 // व्याख्या-तस्मिन् = नरे नले, हृदा = हृदयेन, विमृश्य एव = इदं समीचीनमिति विचार्य एव, वृते = स्वीकृते सति, एषा = उपनता, ऐन्द्री = इन्द्रसम्बन्धी, दया = कृपा, परिग्रहेच्छालक्षणेति भावः / निर्वातुकामं = मोक्तुकामं, धीरं = विद्वांसं, भवसंभवाना= संसारोत्पन्नानां, विषयसम्बद्धानामिति भावः / सुखानाम् = आनन्दानाम्, अवधीरणा इव = 5,वज्ञा इव, माम, अनुतापिका = हन्त ! मयाऽनुचितं कृतमिति पश्चात्तापकारिणी, न अभूत् = नो जाता / / 96 // ___ अनुवाद:- हृदयसे विचारपूर्वक नलको वरण करनेपर यह इन्द्रकी दया, मोक्षकी इच्छा करनेवाले विद्वानको संसारसे उत्पन्न विषयजन्य सुखोंकी अवज्ञाके समान पश्चात्ताप करनेवाली नहीं हुई // 96 // टिप्पणी-ऐन्द्री = इन्द्रस्य इयम् ( इन्द्र + अण् + डीप् ) / निर्वातुकाम = निर्वातुं कामो यस्य, तम् ( बहु० ), "तुं काममनसोरपि” इससे मकारका लोप / भवसम्भवानां भवे संभवो येषां तानि, तेषाम् ( व्यधिकरणबहु० ) माम् = "अनुतापिका” इस पदके योगमें. "अकेनोर्भविष्यदाधमर्ण्ययोःइससे षष्ठीका निषेध होनेसे कर्ममें द्वितीया // 96 // ____ वर्षेषु यद्धारतमार्यधुर्याः स्तुवन्ति गार्हस्थ्यमिवाऽऽश्रमेषु / ___) तत्राऽस्मि पत्युर्वरिवस्ययाऽहं शर्मोमिकिर्मीरितधर्मलिप्सुः / / 97 // अन्वयः-आर्यधुर्याः आश्रमेषु गार्हस्थ्यम् इब वर्षेषु भारतं स्तुवन्ति / तत्र अहं पत्युः वरिवस्यया शर्मोमिकिर्मीरितधर्मलिप्सुः अस्मि / / 97 / / ____ व्याख्या-विमृश्य कृतमित्युक्तं, तत्र विमर्शप्रकारं पद्यचतुष्टयेन प्रतिपादयति वर्षेष्विति / आर्यधुर्याः = साधुश्रेष्ठा जनाः, आश्रमेषु ब्रह्मचर्यादिषु, गार्हस्थ्यं = गृहस्थाश्रमम्, इव, वर्षेषु = ईलावृतादिषु नवसु, भारतं = भारतवर्ष, स्तुवन्ति - प्रशंसन्ति / तत्र तस्मिन् भारतवर्षे, अह, पत्युः = भर्तुः नलस्य, वरिवस्यया =