________________ नेवधीयरितं महाकाव्यम् भावः क्षितिभृत्ता, तया, क्षितिभृत्+तल् + टाप्+टा। अंशाऽऽगतम् = अंशेन ( मात्रया ) आगतः, तम् ( तृ० त० ) / अदेवदेहं = देवस्य देहः ( 10 त० ) / अविद्यमानो देवदेहो यस्य सः, तम् ( नञ् बहु० ) / शुश्रूषिताहे = श्रु+ सन्+ लुट-इट् / "ज्ञाश्रुस्मृदशां सनः" इससे आत्मनेपद और तासिके सकारके स्थानमें हकार आदेश “शुश्रूषा श्रोतुमिच्छायां परिचर्याऽवधानयोः / ' इति विश्वः / 'विशेषलेशः = विशेषस्य लेशः ( 10 त०)॥ 94 // अश्रौषमिन्द्रादरिणी गिरस्ते सतीव्रताऽतिप्रतिलोम तीव्राः। स्वं प्रागहं प्रादिषि नाऽमराय किं नाम तस्मै मनसा नराय // 95 // अन्वयः-(हे इन्द्रदूति ! ) सतीव्रताऽतिप्रतिलोमतीवाः ते गिरः इन्द्रादरिणी ( सती ) अश्रौषम् / प्राक् अहं स्वम् अमराय तस्मै न प्रादिषि, (किन्तु) नराय तस्मै मनसा प्रादिषि / / 95 / / व्याख्या-( हे इन्द्रदूति ! ) सतीव्रताऽतिप्रतिलोमतीवाः = पतिव्रताधर्माऽतिप्रतिकूलदुःसहाः, ते=तव, गिरः = वाचः, इन्द्राऽऽदरिणी = इन्द्रे आदरवती सती, अश्रौषम् = अहं श्रुतवती / अन्ढत्वात् कथं परपुरुषगुणश्रवणे सतीव्रतलोप इत्याशङ्कय आह-स्वमिति / प्राक् = पूर्वम्, अहं, स्वम् = आत्मानम्, अमराय = देवस्वरूपाय, तस्मै = इन्द्राय, न प्रादिषि = न प्रादां, नामेति प्रसिद्धौ / किन्तु-नराय = नररूपिणे, तन्त्रेण रेफरहिताय नण्य, अथ वा रलयोरभेदात् नराय, उभयत्रापि नलाय इति तात्पर्यम्, तस्मै = इन्द्रांऽशाय, निषधेश्वरायेति भावः / मनसा = चित्तेन, प्रादिषि = प्रादाम् // 95 // अनुवादः-(हे इन्द्रद्धति ! ) पतिव्रताधर्म के अत्यन्त प्रतिकूल होनेसे दुःसह तुम्हारे वचनको मैंने केवल इन्द्रमें आदर करके सुना। पहले मैंने अपनेको देवस्वरूप इन्द्रको नहीं दिया है, किन्तु नर ( 'र' से रहित नर = नल ) अथ वा ( र और ल के अभेदसे नलरूप ) इन्द्रके अंशरूप निषधेश्वरको मनसे दिया है / / 95 // टिप्पणी-सतीव्रताऽतिप्रतिलोमतीव्राः = अत्यन्तं प्रतिलोमा: ( गति० ) / सत्यां व्रतम् (10 त०)। सतीव्रतस्य अतिप्रतिलोमाः (10 त० ) / सतीव्रताऽतिप्रतिलोमाश्च ते तीवाः ( क० धा० ) / इन्द्रादरिणी = आदरोऽस्ति यस्याः मा आदरिणी, आदर+इनि+डीप् + सु / इन्द्रे आदरिणी ( स० त० ) नारायण पण्डितने "इन्द्रादरिणीः" ऐसा पाठ दिया है, उस पक्षमें इस पदको "गिरः" इसका विशेषण समझना चाहिए / अश्रौषं = श्रु + लुङ् + मिप् /