________________ 2 नैषधीयचरितं महाकाव्यम् शुश्रूषया, शर्मोमिकिर्मीरितधर्मलिप्सुः = सुखपरम्पराचित्रितपुण्यलाभेच्छु:, अस्मि भवामि / / 97 // * अनुवादः-सज्जनोंमें श्रेष्ठ, आश्रमोंमें जैसे गहस्थाश्रम है. वैसे ही इलावत आदि नौ वर्षों में भारतवर्षकी प्रशंसा करते हैं। वहाँपर मैं पतिकी शुश्रूषासे सुखपरम्पराओंसे चित्रित धर्मके लाभकी इच्छुक हूँ // 97 // टिप्पणी- आर्यधुर्याः = आर्येषु धुर्याः ( स० त०)। गार्हस्थ्यम् = गृहे तिष्ठतीति गृहस्थः, गृह + स्था + क ( उपपद० ) + सु / गृहस्थस्य भावः, गृहस्थ+ष्य+सु / आश्रम चार हैं-ब्रह्मचर्य, गार्हस्थ्य, वानप्रस्थ और संन्यास / वर्षेषु = जम्बूद्वीपमें नौ भूभाग हैं, जिनको 'वर्ष' कहते हैं; जैसे१ कुरुवर्ष, 2 हिरण्मयवर्ष, 3 रम्यकवर्ष, 4 इलावतवर्ष, 5 हरिवर्ष, 6 केतुमालवर्ष, 7 भद्राश्ववर्ष, 8 किन्नरवर्ष भीर 9 भारतवर्ष / भारतं = भरतस्य इदम् भरत + अण्+सु / स्तुवन्ति = स्तु + लट्-झि / वरिवस्यया = "वरिवस्या तु शुश्रूषा" इत्यमरः / शर्मोमिकिर्मीरितधर्मलिप्सुः = शर्मण ऊर्मयः (ष० त०) / "शर्मशातसुखानि च" इत्यमरः / किर्मीरितश्चाऽसौ धर्मः ( क० धा० ) "चित्रं किर्मीरकल्माषशबलताश्च कर्बुरे / " इत्यमरः। शर्मोमिभिः किर्मीरितधर्मः (तृ० त० ) / तं लिप्सुः ( द्वि० त० ) // 97 // स्वर्गे सतां शर्म परं, न धर्मा भवन्ति, भूमाविह तच्च ते च / इष्टचाऽपि तुष्टिः सुकरा सुराणां, कथं विहाय त्रयमेकमोहे ? // 98 // अन्वयः-स्वर्गे सतां शर्म परं, धर्मा न भवन्ति / इह भूमौ तच्च ते च भवन्ति / इष्टया सुराणां तुष्टिरपि सुकरा / ( एवं सति ) कथं त्रयं विहाय एकम् ईहे ? // 98 // ____ व्याख्या-स्वर्गे = देवलोके, सतां = विद्यमानानां देवादीनामिति भावः / शर्म = सुखं, परम् = एव, स्वर्गस्थ भोगस्थानत्वादिति भावः / धर्माः सुकृतानि, न भवन्ति = नो जायन्ते / इह - अस्यां, भूमौ मनुष्यलोके, तच्च = शर्म च, ते च = धर्माश्च, भवन्ति = संभवन्ति, मनुष्यलोकस्य कर्मभूमित्वादिति भावः / इन्द्र वृते तत्सुखोत्पादनाद्धर्मोऽपि भवतीत्याशङ्कयाऽऽह–इष्टयापीति / इष्टया यागेन, भूलोक इति शेषः, सुराणां = देवानां, न केवलमिन्द्रस्य, तुष्टि: अपि = प्रीतिरपि, सुकरा = सुसम्पाद्या, एवं सति, कथं-किमर्थम्, त्रयं त्रितयं, शर्मधर्मसुरतुष्टिरूपमिति भावः, विहाय = त्यक्त्वा, एकं = शर्ममात्रम्,