________________ 68 नैषधीयचरितं महाकाव्यम् अज्ञातृन विज्ञापयतीति, अज्ञातृ + वि+ज्ञा+णिच् +णिनि ( उपपद०) + सु // 91 // आज्ञां तदीयामनु कस्य नाम नकारपासष्यमुपेतु जिह्वा / प्रह्वा तु तां मूनि निधाय मालां बालाऽपराध्यामि विशेषगग्भिः // 92 // अन्वयः-तदीयाम् आज्ञाम् अनु कस्य नाम जिह्वा नकारपारुष्यन् उपतु ? बाला ( अहम् ) प्रह्वा ( सती ) ताम् (एव) मालां मूनि निधाय विशेषवाग्भिः अपराध्यामि // 92 // ___ व्याख्या-(हे दूति ! ) तदीयाम् = इन्द्रसम्बन्धिनीम्, आज्ञाम् अनु = आदेशम् उद्दिश्य, कस्य = जनस्य, नामेति प्रसिद्धौ, जिह्वा = रसना, नकारपारुष्यं = निषेधरूपां कठोरताम्, उपतु = प्राप्नोतु, तु = किन्तु, बाला = शिशुः अहं, प्रह्वा = नम्रा सती, ताम्-आज्ञाम् एव, मालां = स्रजं, मूनि = शिरसि, निधाय = स्थापयित्वा, विशेषवाग्भिः = अधिकवचनः, अपराध्यामि = अपराध करोमि / / 92 // ____अनुवादः-( हे दूति ! ) इन्द्रकी आज्ञाके प्रति किसकी जिह्वा निषेधरूप कठोरताको प्राप्त करेगी? किन्तु बालिका मैं नम्र होती हुई उसः आज्ञारूप मालाको शिरपर रखकर विशेष वचनोंसे अपराध कर रही हूँ // 92 // टिप्पणी-तदीयां = तस्य इयं, ताम्, तद्+छ ( ईय)+टाप् + अम् / नकारपारुष्यं = नकार एव पारुष्यं, तत् ( रूपक० ) / उपतु = उप+ इण् + लोट-तिप् / निधाय = नि+धा+कत्वा ( ल्यप् ) / विशेषवाग्भिः 3 विशेषाश्च ता वाचः, ताभिः (क० धा० ) / अपराध्यामि. = अप + राध+ लट्-मिप् // 92 // तपःफलत्वेन हरेः कृपेयम्मिं तपस्येव जनं नियुक्ते / भवत्युपायं प्रति हि प्रवृत्तावुपेयमाधुर्यमधर्यसज्जि // 6 // अन्वयः-तप:फलत्वेन हरेः इयं कृपा इमं जनं तपसि एव नियुङ्क्ते / हि उपायं प्रति प्रवृत्ती उपेयमाधुर्यम् अधैर्यसज्जि भवति // 93 // व्याख्या-तपःफलत्वेन = इन्द्रोपासनरूप तपः परिणामत्वेन, हरेः = इन्द्रस्य, इयम् = एषा, मत्परिग्रहेच्छारूपा, कृपा = दया, इमम् = एत, जनं = मां, तपसि एव = पुनरपि इन्द्रोपासनायाम् एव, नियुक्ते = प्रेरयति / फले लब्धे पुनः किमयं तपश्चरणमित्यत्राऽऽह-भवतीति / हि=यस्मात् कारणात्, उपायं प्रति = अभीष्टसाधनं प्रति, प्रवृतौ = प्रवर्तने विषये, उपेयमाधुयं =