SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः 67 टिप्पणी-भीमभूः भीमात् भवतीति, भीम+भू + क्विप् ( उपपद०)+ सु / ईषस्मितक्षालितसृक्विभागा = क्षालितौ सृक्विणी एव भागौ यया सा (बहु० ), "प्रान्तावोष्ठस्य सृक्विणी" इत्यमरः / ईषत्स्मितेन क्षालितसृक्विभागा (तृ० त०)। दृक्संज्ञया = दृशः संज्ञा, तया (10 त० ) / वारिततत्तदालि: = वारिताः ताः ताः (प्रतिकूलभाषिण्यः) आलयः यया सा ( बहु० ) / नमस्कृत्य = नमस्+कृ + क्त्वा (ल्यप् ) / उत्तरयाञ्चकार = उत्तरं चचक्ष इति “उत्तर" शब्दसे “तत्करोति तदाचष्टे" इस सूत्रसे णिच् +लिट्-तिप् (णल् ) // 90 // स्तुती मघोनस्त्यज साहसिक्यं, वक्तुं कियत्तं यदि वेद वेदः। वृथोत्तरं साक्षिणि हृत्सु नृणामज्ञातृविज्ञापि ममाऽपि तस्मिन् // 91 // अन्वयः- ( हे दूति ! ) मघोनः स्तुतौ साहसिक्यं त्यज, तं कियत् वक्तुं वेदो वेद / नृणां हृत्सु साक्षिणि तस्मिन् अज्ञातृविज्ञापि मम उत्तरं वृथा // 91 / / व्याख्या-( हे दूति ! ) मघोनः = इन्द्रस्य, स्तुतौ = स्तवे विषये, साहसिक्यम् - अविचार्यकारित्वं, त्यज = मुञ्च, न स्तुहि इति भावः / तं = मघवानं, कियत् = अल्पं, वक्तुं = वर्णयितुं, वेदः = श्रुतिः, वेद = वेत्ति, न अन्य इति भावः / तहि किमस्योत्तरं ? तत्राऽऽह-नृणां जनानां, हृत्सु-हृदयेषु विषये, साक्षिणि = साक्षिभूते, तस्मिन् = मधोनि, अज्ञातृविज्ञापि = अबोद्धृविज्ञापकं, मम=मे, उत्तरं = प्रतिवाक्यं, वृथा = व्यर्थप्रायम्, अज्ञस्यवोत्तराकाङ्क्षा न सर्वज्ञस्येति भावः // 91 // अनुवादः-(हे दुति ! ) इन्द्र की स्तुतिके विषयमें साहस छोड़ो / वेद ही उनका वर्णन करनेके लिए थोड़ा-सा जानता है, मनुष्योंके हृदयमें साक्षी होकर रहनेवाले उन (इन्द्र ) में न जाननेवालोंको जतानेवाला मेरा उत्तर व्यर्थ है // 91 // टिप्पणी- त्यज = त्यज + लोट-सिप् / वेदः - पिदन्ति अनेन इति, विद् +घञ्+सु / वेद = विद् +लट्-तिप् ( णल ), "विदो लटो वा" इससे तिप्के स्थानमें गल / एक पक्षमें "वेत्ति" ऐसा रूप भी। नणां = 'न' शब्दसे आम् विभक्तिमें "न च" इस सूत्रसे विकल्पसे दीर्घ, एक पक्षमें "नृणाम्"। साक्षिणि “साक्षात्" शब्दसे “साक्षादृद्रष्टरि संज्ञायाम्" इस सूत्रसे इनि प्रत्यय / अज्ञातृविज्ञापि = जानन्तीति ज्ञातारः, ज्ञा+ तृच्+जस् / न ज्ञातारः (नञ्०) /
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy