________________ नैषधीयचरितं महाकाव्यम् अन्वयः - "भैमी दूत्यं च किञ्चित् न आपम्" इति स्वयं भावयतो नलस्य हृदयाऽरविन्दं तन्मुखेन्दोः आलोकमात्रात् भिन्नं न अभूत् यदि // 89 // व्याख्या- भैमी = दमयन्ती, दूत्यं च = दौत्यं च, किञ्चित् = किमपि, द्वयोरेकतरमपीति भावः / न आपंन प्राप्तवान्, कन्यारत्नलाभो दूतकार्यनिर्वहणं चकतरमपि न सिद्धमिति भावः / इति = एवम्, स्वयम् आत्मना, भावयतः = चिन्तयतः, नलस्य = नैषधस्य, हृदयाऽरविन्द = हृत्कमलं, तन्मुखेन्दोः = दमयन्तीवदनचन्द्रस्य, आलोकमात्रात् = दर्शनमात्रात्, प्रकाशमात्राच्च / भिन्नं = विदीर्ण विकसितं च, न अभूत् यदि = न अभवत् किम् ? दमयन्तीमुखदर्शनादनया विश्वास्य हतोऽस्मीति मत्त्वा नलो. विदीर्णहृदयोऽभूदेवेत्यर्थः / इन्दुप्रकाशात्कथमरविन्दविकास इति विरोधश्च व्यज्यते // 89 // . ___ अनुवाद:-मैंने दमयन्ती और दूतकर्म कुछ भी नहीं पाया, ऐसा स्वयम विचार करनेवाले नलका हृदयकमल दमयन्तीके मुखचन्द्रके दर्शनमात्रसे विदीर्ण नहीं हुआ क्या? ( विदीर्ण हुआ) // 89 / / टिप्पणी-आपम् = अप्ल + लु+च्लि ( अङ्) + मिप ( कर्ता ) / हृदयाऽरविन्दं = हृदयम् एव अरविन्दम् ( रूपक० ) / तन्मुखेन्दोः = तस्या मूखं (ष० त० ) तदेव इन्दुः, तस्य ( रूपक० ) / आलोकमात्रात् = आलोक एव आलोकमात्र, तस्मात् ( रूपक० ) / भिन्नं = भिद्+त+सु / इस पद्यमें रूपक अलङ्कार है // 89 // ईषस्मितक्षालितसृक्विभागा दृक्संज्ञया. वारिततत्तदालिः / बजा नमस्कृत्य तयैव शक्रं तां भीमभूरुत्तरयाञ्चकार // 10 // ___ अन्वयः-भीमभूः ईषत्स्मितक्षालितसृक्विभागा दृक्संज्ञया वारिततत्तदालि: तया सजा एव शक्रं नमस्कृत्य ताम् उत्तरयाश्चकार // 9 // व्याख्या-भीमभूः = दमयन्ती, ईषत्स्मितक्षालितसृक्विभागा = मन्दहास धौतोष्ठप्रान्तांऽशा सती, दक्संज्ञया = नयनसङ्केतेन एव, वारिततत्तदालि: = निषिद्धतत्तद्वयस्या च सती, तया = इन्द्रद्तीसमर्पितया, स्रजा एव = पुष्पमालया सहैव, शक्रं = देवेन्द्रं, नमस्कृत्या = प्रणम्य, ताम् = इन्द्रदूतीम्, उत्तरयाञ्चकार = उत्तरमाचष्टा // 90 // ___अनुवादः-दमयन्तीने कुछ मन्दहास्यसे ओष्ठप्रान्तोंको प्रक्षालित कर नेत्रोंके इशारेसे उन-उन सखियोंको निषेध करती हुई इन्द्रदूतीसे समर्पित उसी मालाके साथ इन्द्र को भी नमस्कार कर इन्द्रदूतीको उत्तर दिया / 90 //