SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् इत्युक्तवत्या निहिताऽऽदरेण भैमीगृहीता मघवत्प्रसादः / त्रक पारिजातस्य ऋते नलाऽऽशां वासरशेषामपुपूरदाशाम् // 86 // अन्वयः- इति उक्तवत्या आदरेण निहिता भैमीगृहीता मघवत्प्रसादः पारिजातस्य स्रक नलाऽऽशाम् ऋते अशेषाम् आशाम् वास: अपुपूरत् // 86 / / व्याख्या-इति=इत्थम्, उक्तवत्या = कथितवत्या, शक्रदूत्या इति भावः / आदरेण = सम्मानेन, निहिता = समर्पिता, भैमीगृहीता = दमयन्तीस्वीकृता, मघवत्प्रसादः = इन्द्राऽनुग्रहभूता, पारिजातस्य = पाजिातपुष्पस्य, स्रक् = माला, नलाऽऽशाम् ऋते नैषधाऽभिलाषं विना, अशेषां = समस्ताम्, आशां = दिशम्, वासः = स्वसौरभैः, अपुपूरत्-पूरितवती // 86 // ___ अनुवादः-ऐसा कहनेवाली इन्द्रकी दूतीसे आदरपूर्वक समर्पित और दमयन्तीसे ग्रहण की गई इन्द्र की अनुग्रहभूत पारिजातके फूलोंकी मालाने नलकी आशाको छोड़कर संपूर्ण दिशाओंको अपने सौरभसे पूर्ण कर दिया / / 86 // टिप्पणी-उक्तवत्या = ब्रू ( वच् )+ क्तवतु + डीप् + टा। भैमीगृहीताभैम्या गृहीता ( तृ० त० ) / मघवत्प्रसादः = मघवत: प्रसादः (10 त० ), नलाशां = नलस्य आशा, ताम् (10 त० ), "आशा तृष्णादिशोः स्त्रियाम्" इति मेदिनी / "ऋते” इस पदके योगमें "ततोऽन्यचाऽपि दृश्यते” इस वार्तिकके अनुसार द्वितीया। महिम्नः स्तोत्रमें इसी तरह “फलति पुरुषाऽऽराधनमृते" ऐसा ही प्रयोग किया गया है / अपुपूरत="पूरी पूरणे” इस चौरादिक धातुसे णिच् + लुङ्-तिप् / “नाऽग्लोपिशास्वृदिताम्" इससे उपधाह्रस्वका निषेध होकर अभ्यासका ह्रस्व / / 86 // 'आयें ! विचार्याऽलमिहेति काऽपि" "योग्य सखि! स्यादिति काचनापि।" "ओङ्कार एवोत्तरमस्तु वस्तु" "मङ्गल्यमत्रेति च काप्यवोचत्" // 8 // अन्वयः- "आयें ! इह विचार्य अलम्" इति काऽपि अवोचत् / “सखि ! योग्यं स्यात्" इति काचन अपि अवोचत् / “अत्र ओङ्कार एव मङ्गल्यम उत्तरं वस्तु" इति काऽपि अवोचत् / / 87 // व्याख्या–आर्ये = हे श्रेष्ठे ! भैमि !, इह = अस्मिन, इन्द्रवरणे विषये / विचार्य - विमृश्य, अलं = पर्याप्तम्, इन्द्रवरणे विचारो न कर्तव्य इति भावः / इति = एवं वाक्यं, काऽपि = सखी, अवोचत् उक्तवती। सखि = हे वयस्ये भैमि !, इदं योग्यम् = उचितं, स्यात् = भवेत्, इति = एतादृशं वाक्यं, काचन अपि = काऽपि सखी, अवोचत् = उक्तवती / अत्र = अस्मिन्, इन्द्रसन्देशे इति
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy