________________ षष्ठः सर्गः लघुता पाई, विना याचनाके उसी पदको इन्द्र दे रहे हैं / तुम्हारा कैसा स्पृहणीय भाग्य है यह अभिप्राय है / इस पद्यमें व्यतिरेकसे दृष्टान्त अलङ्कार है / / 84 // यानेव देवान्नमसि त्रिकालं, न तत्कृतघ्नीकृतिरोचिती ते / प्रसीव तानप्यनृणान् विधातुं पतिष्यतस्त्वत्पदयोस्त्रिसन्ध्यम् // 5 // अन्वयः– (हे भैमि ! ) यान् एव देवान् त्रिकालं नमसि, तत्कृतघ्नीकृतिः ते औचिती न / त्रिसन्ध्यं त्वत्पदयो: पतिष्यतः तान् अपि अनृणान् विधातुं प्रसीद // 85 // ___व्याख्या-(हे भैमि ! ) यान् एव, देवान् = सुरान् इन्द्रादीन्, त्रिकालं = त्रिसन्ध्यं, नमसि = नमस्करोषि, तत्कृतघ्नीकृतिः = तत्कृतज्ञताऽकरणं, तदीयप्रत्युपकारपरिहारेणेति शेषः / ते = तव, औचिती न = औचित्यं न / त्वया देवा अकृतज्ञा न क्रियन्तामिति भावः / त्रिसन्ध्यं = त्रिकालं, त्वत्पदयोः = त्वच्चरणयोः, पतिष्यतः = नमस्करिष्यतः, तान् अपि = इन्द्रादीन्देवान् अपि, अनृणान् = ऋणरहितान्, विधातुं = कतुं, प्रतिप्रणामस्वीकारेणेति शेषः, प्रसीद - अनुगृहाण, देवान्वृणीष्वेति भावः // 85 // ___ अनुवान:-(हे दमयन्ति ! ) जिन इन्द्र आदि देवताओंको आप त्रिकाल ( प्रातः, मध्याह्न और सायङ्काल) नमस्कार करती हैं, उनको कृतघ्न बनाना आपको उचित नहीं है। तीनों सन्ध्याओंमें आपके पैरोंपर गिरनेवाले उन देवताओंको भी अनण बनानेके लिए, आप अनुग्रह करें (उन देवताओंको वरण कीजिए) // 85 // टिप्पणी–त्रिकालं = त्रयः काला यस्मिन् ( कर्मणि ) (बहु० ), तद्यथा तथा, क्रि० वि० / नमसि = नम् + लट्-सिप् / तत्कृतघ्नीकृतिः = कृतंघ्नन्तीति कृतघ्नाः, कृत+ हन् +क+जस्। अकृतघ्नाः यथा संपद्यन्ते तथा कृतिः, कृतघ्न+वि + कृ + क्तिन् + सु / तेषां कृतघ्नी कृतिः (10 त० ) / औचिती = उचित+ध्यष् + ङीष् / त्रिसन्ध्यं तिसृणां सन्ध्यानां समाहारः ( द्विगु: ), "टाबन्तो वा" इससे नपुंसकलिङ्गता, “कालाऽध्वनोरत्यन्तसंयोगे" इससे द्वितीया / त्वत्पदयोः तव पदे, तयोः ( ष० त०)। पतिष्यतः= पत् + लृट् ( शतृ )+शस् / अनृणान् = अविद्यमानम् ऋणं येषां, तान् ( नन्बहु० ) / विधातुं = वि+धा+तुमुन् / प्रसीद = प्र + सद् + लोटसिप् // 85 //