________________ नैषधीयचरितं महाकाव्यम् - अनुवादः हे विचारमें चतुर दमयन्ति ! मन्दाकिनी और नन्दनका क्रीडामें, विष्णु भगवान्के देवर और लक्ष्मीकी देवरानी और सखी होनेपर जो कल्याण होगा, उसे आप अपने मनसे विचार कीजिए / / 83 / / टिप्पणी - भाविनि = भावयतीति भाविनी, तत्सम्बुद्धौ, भू+ णिच्+ णिनि+ ङीप् + सु / मन्दाकिनीनन्दनयोः = मन्दाकिनी च नन्दनं च, तयोः ( द्वन्द्वः ) / देवरि = "श्यालाः स्युर्धातरः पल्याः स्वामिनो देवदेवरौ" इत्यमरः / यातरि = यतत इति याता, तस्याम्, यत धातुसे “यतेर्वृद्धिश्च" इस उणादि सूत्रसे तृन् प्रत्यय और वृद्धि / “भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् / " इत्यमरः / भावय = भू + णिच् + लोट-सिप् / इस पद्यमें मन्दाकिनी और नन्दनमें विहार क्रियाका और माधवके देवरत्व और लक्ष्मीके यातृत्व रूप गुणोंके योगपद्यसे समुच्चय अलङ्कार है // 83 // रज्यस्व राज्ये जगतामितीन्द्राद याच्याप्रतिष्ठा लभसे स्वमेव / ' लघूकृतस्वं बलियाचनेन तत्प्राप्तये वामनमामनन्ति / / 84 / / अन्वयः-(हे भैमि ! ) "जगतां राज्ये रज्यस्व" इति इन्द्रात् याच्याप्रतिष्ठां त्वम् एव लभसे / तथाहि-तत्प्राप्तये बलियाचनेन लघूकृतस्वं वामनम् आमनन्ति // 84 // व्याख्या-(हे भैमि ! ) जगतां = लोकानां, राज्ये = आधिपत्ये, रज्यस्वअनुरक्ता भव, इति = एवंरूपाम्, इन्द्रात् = मघोनः, याच्ञाप्रतिष्ठा प्रार्थनागौरवं, त्वम् एव, लभसे = प्राप्नोषि / तथाहि-तत्प्राप्तये = जगद्राज्यलाभाय, बलियाचनेन = वैरोचनप्रार्थनेन, लघूकृतस्वम् = अल्पीकृतात्मानं, विष्णुमपीति शेषः / वामनं = ह्रस्वं लघु च, आमनन्ति = कथयन्ति // 84 // ___ अनुवादः-हे भैमि ! "लोकोंके आधिपत्यमें अनुरक्त हो" ऐसे इन्द्रसे प्रार्थनाके गौरवको तुम ही प्राप्त करती हो / जगत्के राज्यको पानेके लिए बलिसे प्रार्थना करनेसे अपनेको छोटा करनेवाले विष्णुको भी वामन ( बौना वा लघु ) कहते हैं / / 84 // - टिप्पणो-रज्यस्व = रञ्ज+लोट् (प्रार्थनामें )-थास् / तत्प्राप्तये = तस्य प्राप्तिः, तस्य (ष० त० ) / बलियाचनेन = बलेर्याचनं, तेन ( ष० त० ) / लघूकृतस्वं = लघूकृतः स्वः (आत्मा) येन, तम् ( बहु० ) / आमनन्ति = आङ्+म्ना+ लट्-झि / जिस लोकराज्यके लिए विष्णुने भी याचनाकी