________________ षष्ठः सर्गः अन्वय:-( हे भैमि ! ) इन्द्रः शतेन मखः यत् पदम् आप। स तस्मै ते याचनचाटुकारः / प्रसादं कुरु / तत् स्वीकारकृद्ध्नटनक्रमेण अलङ्कुरुष्व // 2 // ___ व्याख्या-(हे भैमि ! ) इन्द्रः = देवेन्द्रः, शतेन मखैः = शतसंख्यक: यज्ञः, यत् = इन्द्रत्वलक्षणं, पदं = स्थानम्, आप = प्राप्तवान् / सः = इन्द्रः, तस्मै = पदाय, तत्पदस्वीकारायेति भावः / ते = तव, याचनचाटुकारः = प्रार्थनाप्रियंवदः, अस्तीति शेषः / प्रसादम् = अनुग्रह, कुरु = विधेहि / तत् = ऐन्द्रं पदं, स्वीकारकृद्धूनटनश्रमेण = अङ्गीकारसूचकभ्रूविक्षेपव्यापारण, अलकुरुष्व = अलङ्कृतं कुरु // 2 // ___ अनुवादः-( हे दमयन्ति ! ) इन्द्रने सौ यज्ञोंसे जिस पदको पाया, वे ( इन्द्र ) उस पदके लिए आपसे प्रार्थना करके खुशामद कर रहे हैं / आप अनुग्रह कीजिए, उस पदको स्वीकारव्यञ्जक भ्रूचालनरूप व्यापारसे अलङ्कृत कीजिए // 82 // टिप्पणी-याचनचाटुकारः = चाटुं करोतीति चाटुकारः, चाटु-उपपदपूर्वक 'कृ' धातुसे "न शब्दश्लोककलहगाथावरचाटुसूत्रमन्त्रपदेषु" इस सूत्रसे ट प्रत्ययका निषेध होनेसे “कर्मण्यण्” इस सूत्रसे. अण् प्रत्यय, चाटु + कृ + अण् ( उप० )+ सु / याचनेन चाटुकारः ( तृ० त० ) / कुरु = कृ + लोट-सिप् / स्वीकारकृद्धृनटनक्रमेण स्वीकारं करोतीति स्वीकारकृत् स्वीकार+ + क्विप् (उपपद० )+सु / भ्रवोर्नटनं ( 10 त०), तस्य क्रमः ( 10 त० ) / स्वीकारकृच्चाऽसौ भ्रूनटनक्रमः, तेन (क० धा० ) / अलङ्कुरुष्व = अलं+ कृञ् + लोट् + थास् // 82 // मन्दाकिनीनन्दनयोविहारे देवे भवेद् देवरि माधवे च / श्रेयः श्रियां यातरि यच्च सख्यां तच्चेतसा भाविनि ! भावय त्वम् // 83 / / अन्वयः-हे भाविनि ! मन्दाकिनीनन्दनयोः विहारे माधवे देवे देवरि ( सति ) श्रियां यातरि सख्यां यत् श्रेयः भवेत् तत् त्वं चेतसा भावय / / 83 // व्याख्या - हे भाविनि = हे विचारचतुरे भैमि !, मन्दाकिनीनन्दनयोः = स्वर्णदीन्द्रोपवनयोः, विहारे = क्रीडायां, माधवे = उपेन्द्रे, देवे = सुराऽधीशे, देवरि = देवरे सति, एवं च श्रियां = लक्ष्म्यां , यातरि = देवरभार्यायां, सख्यां% सहचर्यां सत्यां, यत् श्रेयः कल्याणं, भवेत् सम्भवेत्, तत् = श्रेयः, त्वं चेतसा = मनसा, भावय = विचारय // 83 //