________________ नैषधीयचरितं महाकाव्यम् मनोरथेन स्वपतीकृतं नलं निशि क्व सा न स्वपती स्म पश्यति ? अवृष्टमप्यर्थमदृष्टवैभवात्करोति सुप्तिर्जनदर्शनाऽतिथिम् // 39 // अन्वयः-स्वपती सा मनोरथेन स्वपतीकृतं नलं क्व निशि न पश्यति स्म ? सुप्तिः अदृष्टवैभवात् अदृष्टम् अपि अर्थ जनदर्शनाऽतिथिं करोति // 39 // व्याख्या--स्वपती = निद्राती, सा = दमयन्ती, मनोरथेन = अभिलाषेण, स्वपतीकृतम् = निजनाथीकृतं, नलं = नैषधं, क्व = कुत्र, निशि = रात्री, न पश्यति स्म = नो दृष्टवती, सर्वस्यां रात्रावपि ददर्शेति भावः। उक्तमर्थमर्थान्तरन्यासेन द्रढयति / सुप्तिः = स्वप्नः, अदृष्टवैभवात् = धर्माऽधर्मप्रभावात् अदृष्टम् अपि = अविलोकितम् अपि, अर्थ = पदार्थ, जनदर्शनाऽतिथि = लोकविलोकनगोचरं, करोति = विदधाति, स्वप्नरूपेण दर्शयतीति भावः / / 39 // अनुवाव:--सोती हुई वे ( दमयन्ती ) अभिलाषसे अपने पति बनाये गये नलको किस रातमें नहीं देखती थीं / स्वप्न धर्म और अधर्मके प्रभावसे नहीं देखे गये पदार्थ को भी जनोंका दर्शनमोचर बनाता है // 39 // टिप्पणी-स्वपति = "नि वप शये" धातु से लटके स्थानमें शत आदेश और स्त्रीत्वविवक्षामें डीप / स्वपतीकृतं = स्वस्य पतिः (10 त० ) / अस्वपतिः स्वपतिर्यथासंपद्यते तथा कृतः स्वपतीकृतः, तम् / स्वपति+वि++ क्तः / क्व कस्यामिति, "किमोऽत्" इस सूत्रसे "किम्" शब्दसे अत् और "क्वाऽति" इससे 'किम् के स्थानमें क्व आदेश / पश्यति स्म = दृश ( पश्यः)+लट+तिप, 'स्म' के योगमें भूतकाल में लट् / सुप्तिः = स्वप्नं, "निष्वप शये" धातुसे "स्त्रियां क्तिन्" इससे क्तिन् और सम्प्रसारण अदृष्टवैभवात् = न दष्टम् अदृष्टम् ( नज० ) धर्म और अधर्म / अदष्टस्य वैभवं, तस्मात् (ष० त० ) / अदृष्टं = न दृष्टः, तम् ( नन्०)। अर्थम् = “अर्थोऽभिधेयरवस्तुप्रयोजननिवृत्तिषु / " इत्यमरः / जनदर्शनाऽतिथि = जनानां दर्शनम् (ष• त० ), तस्य अतिथिः, तम् ( प० त०) / करोति = कृ+ लट् + तिप् / इस पद्यमें सामान्यसे विशेषका समर्थनम्प अर्थान्तरन्यास अलङ्कार है // 39 // निमीलितादक्षियगाच्च निद्रया हृदोऽपि बाह्येन्द्रियमोनमुद्रितात्। .. अशि संगोप्य कदाऽप्यवीक्षितो रहस्यमस्या: स महन्महीपतिः / / 40 // अन्वयः निद्रया निमीलितात् अक्षियुगात् बाह्येन्द्रियमोनमुद्रितात् हृद: अपि संगोप्य कदाऽपि अवीक्षित। अस्या महत् रहस्यं स महीपति: अदशि // 40 // व्याख्या--निद्रया = स्वापेन, निमीलितात् = मुद्रितात्, अक्षियुगात नेत्र