________________ प्रथमः सर्गः प्रियं प्रियां च त्रिजगज्जयिधियो लिखाधिकोलागृहभित्ति कावपि / इति स्म सा कास्तरेण लेखितं नलस्य च स्वस्य च सख्यमीक्षते // 38 // अन्वयः-"अधिलीलागृहभित्ति को अपि त्रिजगज्जयिश्रियो प्रियं प्रियां च लिख" इति सा कारुतरेण लेखितं नलस्य स्वस्य च सख्यम् ईक्षते स्म // 38 // अथ दमयन्त्याः कान्तप्रतिकृतिदर्शनरूपं विनोदोपायमुपस्थापयति-प्रियमिति / व्याख्या-अधिलीलागृहभित्ति = विलासभवनकुड्ये, को अपि = को चित्, अनिर्दिष्टनामधेयौ, त्रिजगज्जयिश्रियो = लोकत्रयविजयिशोभी, प्रियं = नायक, प्रियां = नायिकां च, लिख = चित्रीकुरु, इति = इत्थम्, आदिश्येति शेषः / सा= दमयन्ती, कारुतरेण = कुशलचित्रकरण, लेखितं = चित्रितं, नलस्य = नैषधस्य स्वस्य च = आत्मनश्च, सख्यं = सखित्वं, चित्ररूपे सहस्थितिमिति भावः / ईक्षते स्म = अद्राक्षीत् // 38 // ____अनुवाद:-"विलास भवनकी दीवारपर तीन लोकोंको जीतनेवाली शोभावाले किन्हीं नायिका और नायकको लिखो" इस प्रकार आज्ञा देकर दमयन्ती कुशल चित्रकारसे लिखे गये चित्र में नल और अपनी सहस्थितिको देखती थीं। टिप्पणो-अधिलीलागृहभित्ति = लीलाया गृहं (ष० त०), तस्य भित्तिः (10 त० ) “भित्तिः स्त्री कुडयम्" इत्यमरः / लीलागृहभित्तो इति अधिलीलागृहभित्ति, “अव्ययं विभक्ति." इत्यादि सूत्रसे विभक्तिके अर्थ में अव्ययीभाव० / को = का च कश्च को, तो, "पुमान् स्त्रिया" इससे एकशेष / त्रिजगज्जयिश्रियोत्रयाणां जगतां समाहार: शिजगत्, "तद्धितार्थोत्तरपदसमाहारे च" इस सूत्रसे समास, उसकी "संख्यापूर्वो द्विगुः" इस सूत्रसे द्विगुसंज्ञा / त्रिजगत् जयतीति तच्छीला त्रिजगज्जयिनी, त्रिजगत्-उपपदपूर्वक "जि जये" धातुमे "जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च" इस सुत्रसे इनि प्रत्यय / त्रिजगज्जयिनी भीर्ययोस्तो, तो ( बह० ) / प्रियं =प्रीणातीति प्रियः, तं, "प्रीन तर्पणे" धातुसे "इगुपधज्ञाप्रीकिरः कः" इस सूत्रसे क प्रत्यय / लिख = "लिख अक्षरविन्यास" धातुसे विधि अर्थ में लोट् +सिप / कास्तरेण = कुर्वन्तीति कारवः, कृ धानुप "कृवापाजिमिस्त्रदिसाध्यशूभ्य उण" इस उणादिमूत्रसे उण प्रत्यय, कारुः"शिल्पी" इत्यमरः / अतिशयेन कारु: कारुतरः ( तरप् प्रत्यय ) तेन, लेखितं, लिख + णिच् + क्त: / सख्यं = सख्युर्भावः, तद् "सत्यूर्यः इस सूत्रसे सखि शब्दसे य प्रत्यय / ईक्षते स्म = ईक्ष + लट् +त, "स्मे लट" इस सूत्रसे 'स्म'के योगमें भूत अर्थ में लुट् / / 38 //