SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् / भावः / अनामयम् = आरोग्यं, पृच्छति = अनुयुनक्ति / शेषः = कार्यशेषस्तु, त्वदाश्लेषकथाविनिद्रः = त्वदालिङ्गनकथनविकसितैः, तद्रोमभिः = इन्द्रलोमभिः, भवत्यै = तुभ्यं, सन्दिदिशे = सन्दिष्टः // 78 // __ अनुवाद:- (हे दमयन्ति ! ) इन्द्र आपको विलासपूर्वक आलिङ्गनसे पीडित कर आरोग्य पूछते हैं। कार्यशेष आपके आलिङ्गनके कथनसे विकसित उनके रोमोंने ही आपको सन्देश दिया है // 78 // टिप्पणी- सलीलं = लीलया सहितं, (तुल्ययोगबहु० ) क्रि० वि० / आलिङ्गनयां = आङ् + लिगि + णिच् + युच् ( अन )+ टाप् + टा। उपपीडम् = उप-उपसर्गपूर्वक पीडधातुसे तृतीयान्त उपपदमें "सप्तम्यां चोपपीडरुधकर्षः" इस सूत्रसे णमुल् प्रत्यय / अनामयं न आमयः अनामयः, तम् ( नञ्०)। दमयन्ती क्षत्रियकन्या थी अतः "क्षत्रबन्धुमनामयम्" भगवान् मनुकी इस उक्तिके अनुसार यह उक्ति है / त्वदाश्लेषकथाविनिद्रैः = तव आश्लेषः (ष० त० ), तस्य कथा ( 10 त० ) / विगता निद्रा येषां तानि विनिद्राणि ( बहु० ) / त्वदाश्लेषकथया विनिद्राणि, तैः ( तृ० त० ) / तद्रोमभिः = तस्य रोमाणि, तैः (10 त० ) / सन्दिदिशे = सम् + दिश+लिट् (कर्ममें ) - त // 78 // यः प्रेर्यमाणोऽपि हवा मघोनस्त्वदर्थनायां हियमापदागः / स्वयंवरस्थानजुषस्तमस्य बधान कण्ठं वरणत्रजव // 79 // अन्वयः-(हे भैमि ! ) मघोनः यः त्वदर्थनायां हृदा प्रेर्यमाणः अपि ह्रियम (एव) आगः आपत् / स्वयंवरस्थानजुषः अस्य तं कण्ठं वरणस्रजा एव बधान // 79 // ____व्याख्या-(हे भैमि ! ) मघोनः = इन्द्रस्य, यः = कण्ठः, त्वदर्थनायां = त्वत्प्रार्थनायां विषये, हृदा = मनसा, प्रेर्यमाणः अपि = प्रेरितोऽपि, ह्रियं = लज्जाम् एव, आगः = अपराधम्, आपत् = प्राप्तवान्, हीनस्थाऽधिकं प्रति याचनासङ्कोचोऽपि अपराध एवेति भावः / अतः स्वयंवरस्थानजुषः = स्वयंवरस्थलस्थितस्य, अस्य = मघोनः, तं = तादृशं, कण्ठं = गलं, वरणस्रजा एव = वरस्वीकरणमाल्येन एव, बधान = बद्धं कुरु, एतादृशाऽपराधिन एतादृश एव दण्ड इति भावः // 79 // अनुवाद:-(हे भैमि ! ) इन्द्रके जिस कण्ठने आपकी प्रार्थनाके विषयमें हृदयसे प्रेरित होते हुए भी लज्जारूप अपराधको प्राप्त किया था। स्वयंवरके
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy