________________ षष्ठः सर्गः (बहु० ) / सम्भावयामास = सम् + भू + णिच् + अस् + लिट-तिप् (णल) // 76 // लिपिन देवी सुपठा भुवीति तुभ्यं मयि प्रेषितवाचिकस्य / इन्द्रस्य दूत्यां रचय प्रसादं विज्ञापयन्त्यामवधानदानम् // 77 // अन्वयः-(हे भैमि ! ) दैवी लिपिः भुवि सुपठा न, इति तुभ्यं प्रेषितवाचिकस्य इन्द्रस्य दूत्यां मयि विज्ञापयन्त्याम् अवधानदान प्रसादं रचय / / 77 // व्याख्या-(हे भैमि ! ) देवी = देवसम्बन्धिनी, लिपि = लिविः, भुवि = भूलोके, सुपठा = सुखेन पठितुं शक्या, न = नाऽस्ति, इति = अस्माद्धेतो:, तुभ्यं = त्वदर्थ, प्रेषितवाचिकस्य = प्रहितसन्देशवाक्यस्य, इन्द्रस्य = देवेन्द्रस्य, दूत्यां = शम्भल्यां, मयि विज्ञापयन्त्यां = निवेदयन्त्याम, अवधानदानम्, एकाग्रचित्तत्ववितरणम् एव, प्रसादम् = अनुग्रहं, रचय = कुरु / / 77 / / ___ अनुवादः-( हे दमयन्ति ! ) देवलिपि पृथ्वीपर नहीं पढ़ी जा सकती है इस कारणसे आपके लिए सन्देशवाक्यको भेजनेवाले इन्द्रकी दूती, निवेदन करनेवाली मेरे ऊपर एकाग्रतारूप अनुग्रह कीजिए // 77 // . टिप्पणी–देवी - देव + अण् + डीप+सु / सुपठा = सुखेन पठितुं शक्या "ईषदुःसुषु कृच्छाऽकृच्छाऽर्थेषु खल्” इससे खल, सु+पठ+ खल+टाप् + सु / प्रेषितवाचिकस्य = व्याहृताऽर्था वाक् वाचिकं, 'वाच' शब्दसे "वाचो व्याहताऽर्थायाम्" इस सूत्रसे स्वाऽर्थ में ठक ( इक) प्रत्यय / “सन्देशवाग्वाचिकं स्यात्" इत्यमरः / प्रेषितं वाचिकं शेन, तस्य ( बह०)। विज्ञापयन्त्यां = वि+ शा+णिच् + लट ( शतृ ) + डीप्+ङि / अवधानदानम् = अवधानस्य दानं, तत् ('ष० त० ) "अवधानं समाधानं प्रणिधानं तथैव च / " इत्यमरक्षेपकः / रचय = रच+ णिच् + लोट–सिप् // 77 // संलीलमालिङ्गनयोपपीडमनामयं पृच्छति वासवस्त्वाम् / शेषस्त्वदाश्लेषकथाविनिस्तद्रोमभिः सन्दिविशे भवत्यै // . 78 // अन्वयः-(हे भैमि ) वासव: त्वां सलीलम् आलिङ्गनया उपपीडम् अनामयं पृच्छति / शेषः त्वदाश्लेषकथाविनिद्रः तद्रोमभिः भवत्यै सन्दिदिशे // 78 // - व्याख्या - ( हे भैमि ! ) वासवः = इन्द्रः, त्वा = भवती, सलीलं = सविलासम्, आलिङ्गनया-आलिङ्गनेन, उपपीडम् = उपपीड्य, गाढमालिङ्ग्येति