________________ नैषधीयचरितं महाकाव्यम् टिप्पणी-कृतकाकुयाच्याः = काक्वा याच्याः ( तृ० त० ), कृता काकुयाच्या याभिः, ताः ( बहु० ) / हुताऽशकीनाशजलेशदूतीः = जलस्य ईशः (ष० त० ) / हुताशश्च कीनाशश्च जलेशश्च ( द्वन्द्वः ). हुताशकीनाशजलेशानां दूत्यः / ताः (10 त० ) / "कीनाशः कर्षकक्षुद्रोपांशुघातिषु वाच्यवत / यमे ना" "इति मेदिनी। निराकरिष्णोः = निर+आइ+ कृञ्, धातुसे "अलकृन" इत्यादि सूत्रसे इष्णुच् प्रत्यय / तदाशां = तस्याम् आशा ताम् ( स० त० ) / न्यवर्तयत् = नि+ वृत् + णिच् + लङ् - तिप् / / 75 / / विज्ञप्तिमन्तः सभयः स भैम्यां मध्येसभं वासवशम्भलीयाम् / सम्भावयामास भृशं कृशाऽऽशस्तदालिवृन्दरभिनन्द्यमानाम् / / 76 // अन्वयः–स मध्येसमं तदालिवन्दः अभिनन्धमानां वासवशम्भलीयां भैम्यां विज्ञप्तिम् अन्तः सभयः कृशाऽऽशः ( सन् ) भृशं संभावयामास // 76 // व्याख्या—सः = नल:, मध्येसभं = सभाया मध्ये, तदालिवन्दः = भैमीसखीसङ्क:, अभिनन्द्यमानाम् = अभिनन्दितां, वासवशम्भलीयां = महेन्द्रदूतीसम्बन्धिनी, भैम्यां = दमयन्त्यां विषये, विज्ञप्ति-वक्ष्यमाणं विज्ञापनम्, अन्तः = अन्तःकरणे, सभयः भीतियुक्तः, इन्द्रगौरवादियं स्वीकरिष्यतीति मत्वेति शेषः / अत एव कृशाऽऽशः = दुर्बलाऽभिलाषः सन्, भैमीप्राप्ताविति शेषः / भृशम् = अत्यर्थ, सम्भावयामास-सम्भावितवान् / अत्यवधानेन शुश्रावेति भावः / / 76 / / अनुवादः-नलने सभाके बीच दमयन्तीकी सखियों से अभिनन्दित, इन्द्रकी दूतीकी दमयन्तीके प्रति प्रार्थनाको अन्तःकरणमें भयसे युक्त होकर और दमयन्तीको पानेमें निराश होते हुए अतिसावधानतापूर्वक सुना // 76 // टिप्पणी-मध्येसभं = सभाया मध्ये, “पारे मध्ये षष्ठ्या वा" इस सूत्रसे अव्ययीभाव / तदालिवृन्दैः = आलीनां वृन्दानि (10 त० ), तस्या आलिबृन्दानि, तैः (10 त० ) / वासवशम्भलीयां = वासवस्य शम्भली (ष० त० ), "वासवो वृत्रहा वृषा" इति "शम्भली कुट्टनी समे / " इत्युभयत्रापि अमरः / "सम्भली" शब्द दन्त्यादि भी होता है / वासवशम्भल्या इयं वासवशम्भलीया, ताम् / वासवशम्भली+ छ ( इय )+ टाप् + अम्। विज्ञप्ति = वि+ज्ञा+ णि+निन् + अम् / वास्तवमें "ण्यासश्रन्थो युच" इस सूत्रसे क्तिन्का अपबाद युच्का विधान होकर "विज्ञापना" ऐसा पद बनता है, “विज्ञप्ति" नहीं / सभयः = भयेन सहितः ( तुल्ययोग बहु० ) / कृशाऽऽशः कृशा आशा यस्य सः