________________ षष्ठः सर्गः भैमीविनोदाय मुदा सखोभिस्तदाकृतीनां भुवि कल्पितानाम् / नाकि मध्ये स्फुटमप्युदोतं तस्याऽनुबिम्बं मणिवेदिकायाम् // 7 // अन्वयः-भैमीविनोदाय मुदा सखिभिः भुवि कल्पितानां तदाकृतीनां मध्ये मणिवेदिकायां स्फटम् उदीतम् अपि तस्य अनुबिम्ब न अकि / / 74 // व्याख्या-भैमीविनोदाय = दमयन्त्युत्कण्ठाऽपनयाय, मुदा = हर्षेण, सखीभिः वयस्याभिः, भुवि = भूतले, कल्पितानां = रचितानां, तदाकृतीनां= नलाऽऽकाराणां, मध्ये = अन्तरे, मणिवेदिकायां = रत्नखचितपरिष्कृतभूमी, स्फुटं = व्यक्तम्, उदीतम् अपि जातम अपि, तस्य =नलस्य, अनुबिम्बप्रतिबिम्बं, न अर्कि = न तर्कितम् // 74 // ___ अनुवादः-दमयन्तीका दिल बहलाने के लिए हर्षपूर्वक सखियों ने भूतल में रचित नलके चित्रोंके बीच रत्नोंकी वेदिमें प्रकट होनेपर भी नलके प्रतिबिम्बकी तर्कना नहीं की / / 74 // ___ टिप्पणी-भैमीविनोदाय = भैम्या विनोदः, तस्मै (ष० त०)। तदाकृतीना = तस्य आकृतयः, तासाम् (ष० त० ) / मणिवेदिकायां = मणीनां वेदिका, तस्याम् (ष०त. ) 1. इस पद्यमें सामान्य अलङ्गारसे भ्रान्तिमान अलङ्गार व्यङ्गय होता है, इस प्रकार अलङ्गारसे अलङ्गारध्वनि है / / 74 / / हुताऽशकोनाशजलेशदूतीनिराकरिष्णोः कृतकाकुयायाः / भैम्या वचोभिः स निजां तदाशां न्यवर्तयद् दूरमपि प्रयाताम् / 75 // अन्वय.-कृतकाकुयाच्याः हुताऽशकीनाशजलेशदूतीः निराकरिष्णोः भैम्या वचोभिः स दूरं प्रयाताम् अपि निजां तदाशां न्यवर्तयत् / / 75 // .. व्याख्या-कृतकाकुयानाः = विहितदीनस्वरयाचनाः, हुताऽशकीनाशजलेशदूती: = अग्नियमवरुणसन्देशहराः, निराकरिष्णोः = निराकरणशीलाया.. भैम्याः = दमयन्त्याः , वचोभिः = वचनैः, सः = नल:, दूरं - विप्रकृष्टदेशं, प्रयाताम् अपि प्रगताम् अपि, अग्न्यदिकपटेन लुप्तप्रायाम् अपि इति भावः / निजां = स्वकीयाम्, आशां = दमयन्ती - तृष्णां, न्यवर्तयत् = निवर्तितवान् / नल: पुनर्दमन्तीप्राप्त्याशामकरोदिति भावः // 75 / / ___ अनुवाद:-दीन स्वरसे याचना करनेवाली अग्नि, यम और वरुणकी दूतियों को निषेध करनेवाली दमयन्तीके वचनोंसे नलने दूर गई हुई अपनी दमयन्तीकी आशाको फिर लौटा लिया / / 75 / /