________________ नैषधीयचरितं महाकाव्यम् तामेव सा यत्र जगाद भूयः पयोषियावः कुचकुम्भयोस्ते / सेयं स्थिता तावकहृच्छयाङ्कप्रियाऽस्तु विस्तारयशःप्रशस्तिः / 70 // अन्वयः-यत्र सा ताम् एव “पयोधियादः तावकहृच्छयाऽङ्कप्रिया ते कुचकुम्भयोः स्थिता सा इयं विस्तारयशःप्रशस्तिः अस्तु" (इति) भूयो जगाद // 70 // - व्याख्या-यत्र = दमयन्तीसभायां, सा = पूर्वोक्ता प्रसाधिका, ताम् एव = पूर्वोक्ताम् एव सखीं, पयोधियादः= समुद्रजलजन्तुः, तावकहृच्छयाऽङ्कप्रिया = त्वन्मनसिजमकरवल्लभा, ते तव, कुचकुम्भयोः = स्तनकलशयोः, स्थिता 3 विद्यमाना, सा = तादृशी, इयं = मकरी, विस्तारयशःप्रशस्तिः = परिणाहकीर्तिस्तुतिवर्णावलिः, अस्तु = भवतु / ( इति = एवम् ) भूयः = पुनरपि, जगाद उक्तवती / / 70 // अनुवादः-जिस सभामें प्रसाधन करनेवाली सखीने उसी सखीको "तुम्हारे हृदय में रहनेवाले कामदेवके चिह्न समुद्रके जलजन्तु मकरकी प्रिया तुम्हारे स्तनकलशोंमें विद्यमान यह मकरी स्तनोंके विस्तार और कीर्तिकी स्तुतिवर्णावलि हो" ऐसा वाक्य फिर भी कहा / / 70 // टिप्पणी-पयोधियादः = पयोधेर्यादः (ष० त० ) “यादांसि जलजन्तवः" इत्यमरः / तावकहृच्छयाऽङ्कप्रिया = तावकश्चाऽसौ हृच्छयः ( मकरध्वजः ), ( क 0 धा० ) / तस्य अङ्कः ( चिह्नभूतः मकर: ) (10 त० ), तस्य प्रिया (10 त० ) / कुचकुम्भयोः = कुचौ एव कुम्भौ, तयोः ( रूपक० ) / विस्तारयशःप्रशस्तिः = विस्तारश्च यशश्च विस्तारयशसी ( द्वन्द्वः), तयोः प्रशस्तिः (10 त० ) / अस्तु = अस् + लोट-तिप् / जगाद = गद + लिट्-तिप् ( णल् ) / इस पद्यमें रूपक अलङ्कार है / / 70 // शारी चरन्ती सखि ! मारयनामित्यक्षदाये कथिते कयापि / यत्र स्वघातभ्रमभीरुशारी काकूत्थसाकूतहसः स जज्ञ // 71 // अन्वयः-यत्र स कया अपि "हे सखि ! एनां चरन्तीं शारी मारय" इति अक्षदाये कथिते स्वघातभ्रमभीरु शारीकाकुत्थसाऽऽक्तहसः जज्ञे // 71 // ___ व्याख्या-यत्र = यस्यां सभायां, सः = नल:, ‘कया अपि = पाशकक्रीडनशीलया नार्या, हे सखि = हे वयस्ये !, एनाम् = इमां, चरन्ती = भ्रमन्ती, शारीम् = अक्षोपकरणं दारुविकारं, मारय = प्रहर, इति = एवम्, अक्षद'ये 3 पाशकदाने, कथिते = अभिहिते सति, स्वघातभ्रमभीरुशारीकाकूत्थसाकूतहसः =