SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् व्याख्या-प्रसूनः = पुष्पः, स्मराऽशुगीभूय = कामबाणा भूत्वा, विदर्भसुभ्रूवक्षः = दमयन्तीहृदयं, यत् अक्षोभि = क्षोभितं, खलु = निश्चयेन, तत् - क्षोभणवैरं, यत्र = दमयन्तीसभायां, तेषु = प्रसूनेषु, सूचिशिखां = सूच्यनं, निखाय = आरोग्य, स्रज = पुष्पमालां, सृजन्त्या = रचयन्त्या, एकया = सख्या, अशोधि = निर्यातितम्, हृदयच्छेदिनां हृदयच्छेद एव प्रतीकार इति भावः // 67 // __ अनुवादः-फूलोंने कामके बाण होकर दमयन्तीके हृदयको जो पीडित किया था जिस सभामें उन्हीं फूलोंमें सूईकी नोंकको चुभाकर माला बनानेवाली एक सखीने उसका बदला लिया // 67 // टिप्पणी-स्मराऽऽशुगीभूय = स्मरस्य आशुगाः (ष० त०)। अस्मराऽऽशुगाः स्मराऽऽशुगा यथा संपद्यन्ते तथा भूत्वा स्मराऽऽशुग+वि+भू+क्त्वा (ल्यप्) / विदर्भसुभ्रूवक्षः = शोभने ध्रुवौ यस्याः सा सुभ्रः ( बहु० ) / विदर्भाणां सुभ्रूः (प० त०), तस्या वक्षः (ष० त०)। अक्षोभि = क्षुभ् +णि+लुङ (कर्ममें)त। सूचिशिखां-सूचेः शिखा, ताम् (ष० त० ) / निखाय=नि+खन्+क्त्वा ( ल्यप् ) / सृजन्त्या = सृज+ लट् ( शतृ ) + ङीप् + टा। अशोधि = शुध् + सुङ् ( भावमें )-त // 67 // यत्राऽवदत्तामतिभीय भैमी "त्यज त्यजेदं सखि ! साहसिक्यम् / त्वमेव कृत्वा मदनाय वत्से बाणान्प्रसूनानि गुणेन सज्जान् // "68 // अन्वयः-यत्र तां भैमी अतिभीय-“हे सखि ! इदं साहसिक्यं त्यज त्यज / त्वम् एव प्रसूनानि ( एव ) बाणान् गुणेन सज्जान् कृत्वा मदनाय दत्से'' इति अवदत् / / 68 // व्याख्या-यत्र = सभायां, तां = मालास्रष्ट्री सखी, भैमी = दमयन्ती, अतिभीय = अत्यन्तं भीत्वा, "हे सखि = हे वयस्ये !, इदं = मालाग्रथनरूपं, साहसिक्यम् = अविमृश्यकारित्वं, त्यज त्यज% मुञ्च मुञ्च, त्वम् एव, प्रसूनानि%3D पुष्पाणि एवं, बाणान्-शरान्, गुणेन तन्तुना ज्यया च, सज्जान् = सक्तान्, कृत्वा = विधाय, मदनाय = कामदेवाय, दत्से = ददासि, इति = एतादृशं वाक्यम्, अवदत् = उक्तवती // 68 // . - अनुवादः -जिस सभामें माला बनानेवाली सखीको दमयन्तीने बहुत डरकर-"हे सखि ! इस अविवेकपूर्ण कार्यको छोड़ो छोड़ो। तुम ही फलरूप
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy