________________ षष्ठः सर्गः 47 रेखं भवनशीला भावुकाः, भू धातुसे “लषपतपदस्थाभूवृषहनकमगमभ्शृयभ्य उकब्" इस सूत्रसे उकञ् प्रत्यय / मस्या भावुकाः ( ष० त०)। वर्णानां रेखाः (10 त० ) मषीभावुका वर्णरेखा यस्मिन्, तम् ( बहु)। अनङ्गलेखम् = अनङ्गस्य लेखः, तम् ( ष० त० ) / नखलेखनीभिः = नखा एव लेखन्यः, ताभिः ( रूपक० ) / इस पद्यमें रूपक अलङ्कार है / / 63 / / विलेखितुं भीमभुवो लिपीष सख्यातिविख्यातिभृताऽपि यत्र / अशाकि लीलाकमलं न पाणिमपारि कर्णोत्पलमक्षि नैव // 64 // अन्वयः--यत्र लिपीषु अतिविख्यातिभृता अपि सख्या भीमभुवः लीलाकमलं विलेखितुम् अशाकि, पाणि तु न अशाकि / कर्णोत्पलं विलेखितुम् अपारि, अक्षि तु न अपारि एव / / 64 // ___ व्याख्या--यत्र = सभायां, लिपीषु = चित्रकर्मसु, अतिविज्यातिभृता अपिअति प्रसिद्धिमत्या अपि; सख्या = वयस्यया, भीमभुवः = दमयन्त्याः , लीलाकमलं विलासपद्म, विलेखितुं-चित्रविषयीकर्तुम्, अशाकि-शक्तम्, पाणि तु= दमयन्त्याः करं तु, विलेखितुमिति शेषः / न अशाकि = न शक्तम् तदपेक्षया उत्कृष्टत्वादिति भावः। कर्णोत्पलं = श्रोत्र कुवलयं, दमयन्त्या इति शेषः / विलेखितुं = चित्रविषयीकर्तुम्, अपारि-पारितं, अक्षि तु = दमयन्त्या नेत्रं तु, न अपारि एव = न पारितम् एव, विलेखितुमिति शेषः, यत्रसौन्दर्यस्य सर्वोपमानाऽतीतत्वादिति भावः // 64 // . अनुवाद:-जिस सभामें चित्रकर्मोमें अत्यन्त प्रसिद्ध होनेपर भी दमयन्तीकी सखी दमयन्तीके लीलाकमलको लिख सकी, परन्तु दमयन्तीके हाथको नहीं लिख सकी, उसी तरह वह दमयन्तीके कर्णभूषण कमलको लिख सकी, परन्तु दमयन्तीके नेत्रको नहीं लिख सकी // 64 // टिप्पणी-लिपीषु = कृदिकारायक्तिनः" इससे डीप् / अतिविख्यातिभृता = अत्यन्तं विख्यातिः ( गति० ) / तां बिभर्तीति अतिविख्यातिभृत्, तया / अतिविख्याति + भृ+क्विप् ( उपपद०)+टा। भोमभुवः = भीमात् भवतीति भीम भूः, तस्याः, भीम+भू + क्विप् (गति० )+ ङस् / लीलाकमलं = लीलायाः कमलं, तत् (ष० त०)। विलेखितुं = वि+लिख+तुमुन् "शकधृषज्ञाग्लाघटरभलभऋसहाऽर्हाऽस्त्यर्थेषु तुमुन्" इस सूत्रसे शक धातु उपपद होनेसे तुमुन् / अशाकि = शक+लुङ् ( भावमें )+त। कर्णोत्पलं = कर्णस्य उत्पलं, तत्। (10 त०)। विलेखितुं वि+लिख+तुमुन् / पर्याप्ति'