________________ 46 नैषधीयचरितं महाकाव्यम् ____ अनुवादः-दमयन्तीकी सभामें किसी सुन्दरीने चन्द्रके सदश अभ्रकके तिलकको चन्द्रमाके सदृश सखीके मुखमें अभ्रकके तिलकसे युक्त अपने मुखचन्द्रसे प्रतिबिम्बित कर लगाती हुई मानो चन्द्रमाकी अनवस्था ( अनेक संख्या ) को उत्पन्न किया // 62 // टिप्पणी-चन्द्राऽभं = चन्द्रस्य इव आभा यस्य सः, तम् ( व्यधिकरण बहु० ) आभ्रम : अभ्रस्य विकारः, तम् ( अभ्र + अण् + अम्)। चन्द्रसखे चन्द्रस्य सखा ( सदृशः ) चन्द्रसखस्तस्मिन् / (ष० त०)। सखीमुखे = सख्या मुखं, तस्मिन् (10 त० ) / तद्वन्निजाऽऽस्येन्दुकृताऽनुबिम्बं = तत् (आभ्रतिलकम् ) अस्ति यस्मिन् स तद्वान् ( तद् + मतुप् + सुः)। निजं च तत् आस्यम् ( क० धा० ) / निजास्यम् एव इन्दुः ( रूपक० ) / कृतम् अभ्रबिम्बं यस्मिस्तत् ( बहु० ) / निजास्येन्दुना कृताऽनुबिम्ब ( तृ० त०) / तद्यथा तथा, ( क्रि० वि० ) / दधाना = धत्त इति धा + लट् ( शानच् ) + टाप् / . चन्द्राऽनवस्थां - न अवस्था ( नन 0 ) / चन्द्रस्य अनवस्था, ताम् (10 त० ), ससर्ज = सृज् + लिट् + तिप् ( णल ) / इस पद्यमें उपमा, रूपक और उत्प्रेक्षा इनका अङ्गाऽङ्गिभावसे सङ्कर अलङ्कार है // 62 // दलोदरे काञ्चनकतकस्य क्षणान्मषीभावुक वर्णरेखम् / तस्यैव यत्र स्वमननलेखं लिलेख भैमी नखलेखनीभिः॥ 63 // अन्वयः- यत्र भैमी काञ्चनकैतकस्य दलोदरे क्षणात् मषीभावुकवर्णरेखं तस्य एव ( कृते ) स्वम् अनङ्गलेखं नखलेखनीभिः लिलेख / / 63 / / व्याख्या- यत्र = दमयन्तीसभायां, भैमी = दमयन्ती, काञ्चनकैतकस्य = स्वर्णकेतकीपुष्पस्य, दलोदरे = पत्रमध्ये, क्षणात = झटिति, मषीभावुकवर्णरेखं = श्यामीभवदक्षरविन्यासं, तस्य एव = नलस्य एव, कृते इति शेषः / स्वं= स्वकीयम्, अनङ्गलेख = कामसन्देशं, नखलेखनीभिः = नखरूपलेखनसाधन:, लिलेख = लिखितवती // 63 // अनुवादः-सभामें दमयन्तीने सुवर्णकेतकी पुष्पके पत्तेके भीतर कुछ ही क्षणमें स्याही होनेवाले अक्षरविन्याससे युक्त अपने कामसन्देशको नलके ही लिए नखरूप कलमोंसे लिखा // 63 // टिप्पणी-काञ्चनकैतकस्य = केतक्या विकार: कतकम्, केतकी शब्दसे "तस्य विकारः" इस सूत्रसे अण् और आदि वृद्धि / काञ्चनं च तत् कतक, तस्य ( क० धा० ) / दलोदरे = दलस्य उदरं, तस्मिन् ( 10 त० ) / मषीभावुकवर्ण