________________ षष्ठः सर्गः भवा मृषाभीमभवा यथा संपद्यते तथा भवतीति मृषाभीमभवीभवन्ती, तया मृषाभीमभवा+च्चि + भू+लट् ( शतृ )+ डीप् +टा / अलीकनलीकृताऽऽलीकण्ठे = अलीकश्चाऽसौ नल: (क० धा० ) / अनलीकनल: अलीकनल: यथा संपद्यते तथा कृता अलीकनलीकृता ( अलीकनल + च्विः + कृ + क्तः+ टाप् / सा चाऽसौ आली (क० धा० ), तस्याः कण्ठः, तस्मिन् (ष० त०), दौहदिकोपनीता = दोहदम् ( गर्भिणीमनोरथः ) एव दोहदम्, दोहद + अण् ( स्वार्थ में ) + सु / दोहदम् (पूरणीयत्वेन ) अस्ति यस्याः सा दौहादिका ( धात्री ) दौहद शब्दसे "अत इनिठनौ" इससे ठन् ( इक ) और स्त्रीत्वविवक्षा में टाप् / धाय गर्भिणीके मनोरथको पूर्ण करनेमें नियुक्त होती है अतः उसे "दोहदिका" कहते हैं / तया उपनीता ( तृ० त०) / यह मल्लिनाथसम्मत अर्थ है। नारायण पण्डितके मतके अनुसार "तरुगुल्मलतादीनामकाले कुशलः कृतम् / पुष्पाद्युत्पादक द्रव्यं दोहदं स्यात्तु तत्क्रिया / " इस शब्दार्णवकोशके अनुसार वृक्षादिके असमयमें पुष्प आदिके उत्पादक पदार्थको दोहद' कहते हैं, दोहदे नियुक्तः दौहदिकः ( मालाकार: ), "तत्र नियुक्तः" इस सूत्रसे दोहद शब्दसे ठक् ( इक ) और आदिवृद्धि / दौहदिकेन उपनीता ( तृ० त० ) / मधूकमाला-मधुकानां माला (10 त० ), "मधूके तु डपुष्पमधु मौ०" इत्यमरः / शालीनं ="शालीनकौपीने अधृष्टाऽकार्ययोः' इससे निपातन / आधायि = आङ् + धा + लुज ( कर्म में ) + त / "आतो युक् चिराकृतोः” इससे युक् आगम // 61 // चन्द्राऽऽभमानं तिलकं दधाना तद्विन्निजाऽऽस्येन्दुकृताऽनुबिम्बम् / सखीमुखे चन्द्रसखे. ससर्ज चन्द्राऽनवस्थामिव काऽपि यत्र // 62 // अन्वय:-यत्र काऽपि चन्द्राऽऽभम् आभ्र तिलकं चन्द्रसखे सखीमुखे तद्वनिजाऽऽस्येन्दुकृताऽनुबिम्बं दधाना चन्द्राऽनवस्थां ससर्ज इव // 62 // व्याख्या-यत्र = दमयन्तीसभायां, कापि = सुन्दरी, चन्द्राऽऽभं = चन्द्रसदृशम्, आभ्रम् = अभ्रविकारं, तिलकं = ललाटाऽऽभरणं, चन्द्रसखे = चन्द्रसदृशे, सखीमुखे = वयस्यावदने, तद्वन्निजाऽस्येन्दुकृताऽनुबिम्बम् = अभ्रतिलकयुक्तस्वमुखचन्द्र विहितप्रतिबिम्बं यथा तथा, दधाना = रचयन्ती, चन्द्राऽनवस्थां = चन्द्राऽनवस्थिति, चन्द्राऽसङ्खयतामिति भावः, ससर्ज इव = जनयामास इव // 62 //