________________ 40 नैषधीयचरितं महाकाव्यम् ध्याख्या-तौ = भैमी नलौ, रूपश्रिया = सौन्दर्यसम्पत्या, सर्वत्र सर्वाऽवयवेषु, संवाद्यं=मिथः संवादाऽहं, परस्पराऽनुरूपमिति भावः / अत एव परम् = अत्यन्तम्, आतिथ्यकरं = मिथः सत्कारकारि, अलीकम् = असत्यं, परस्परम् = अन्योन्यं कर्म आलोक्य = दृष्ट्वा, अबाधमानौ - मिथ्या इति अमन्यमानों सन्तौ, केलिरसात् = क्रीडारागात्, विरन्तुनिवर्तितुं, न शेकतुः = समथौ नाऽभवताम् / / 54 // ___ अनुवाद:-दमयन्ती और नल सौन्दर्यसम्पत्तिसे संपूर्ण अवयवोंमें परस्परमें योग्य, अतिशय परस्परमें सत्कार करनेवाले मिथ्याभूत परस्परके कर्मोंको देखकर "यह मिथ्या है" ऐसा नहीं मानते हुए क्रीडाके अनुरागसे निवृत्त न हो सके // 54 // टिप्पणी-रूपश्रिया = रूपस्य श्री:, तया (ष० त० ) / संवाद्यं = सं + वद् + ण्यत् + अम् / आतिथ्यकरम् = आतिथ्यं करोती ति, तत्, आतिथ्य + कृ+ट+( उपपद० ) अम् / केलिरसात् - केले रसः, तस्मात् (ष० त० ) / विरन्तुं = वि+रम् + तुमुन् / शेकतुः = शक् + लिट् + अतुस् // 54 // परस्परस्पर्शरसोमिसेकात्तयोः क्षणं चेतसि विप्रलम्भः / स्नेहाऽतिदानादिव दीपिकाचिनिमिष्य किञ्चिद् द्विगुणं दिदीपे // 15 // अन्वयः–तयोः चेतसि विप्रलम्भः परस्परस्पर्शरसोमिसेकात् क्षणं स्नेहाऽतिदानात् दीपिकाचिः इव किञ्चित् निमिष्य द्विगुणं दिदीपे // .55 // व्याख्या--तयो:-दमयन्तीनलयोः, चेतसि = चित्ते, विप्रलम्भः = विरहः, परस्परस्पर्शरसोमिसेकात् = अन्योन्यामर्शनसुखतरङ्गसेचनात्, क्षणं = कञ्चित्कालं, स्नेहाऽतिदानात् = तैलादिबहुप्रक्षेपात्, दीपिकाऽचिः इव = दीपज्वाला इव, किञ्चित् = ईषत्, निमिष्य = निवार्य, द्विगुणं = द्वयावृत्ति, अधिकमित्यर्थः, दिदीपे = प्रजज्वाल // 55 // - अनुवादः-दमयन्ती और नलके चित्तमें विरह परस्परमें स्पर्शसुखकी तरङ्गोंके सेचनसे कुछ समयतक तैल आदि डालनेसे दीपकी ज्वालाके समान कुछ मन्द होकर द्विगुण प्रज्वलित हुआ // 55 // ___टिप्पणी-परस्परस्पर्शरसोमिसेकात् = परस्परयोः स्पर्शः (10 त०), तस्य रसः (10 त० ) तस्य ऊर्मयः (10 त० ) तैः सेकः, तस्मात् ( तृ० त० ) / स्नेहाऽतिदानात् = स्नेहस्य अतिदानं, तस्मात् (10 त० ) / दीपिकाचिः = दीपिकाया अर्चिः (ष० त० ) / निमिष्य = नि + मिष् + क्त्वा ( ल्यप् ) /