________________ षष्ठः सर्गः द्विगुणं = द्वौ गुणौ ( आवृत्ती ) यस्मिन् कर्मणि तद्यथा तथा ( बहु० ) / दिदीपे= दीप+ लिट् +त ( एश् ) / इस पद्य में उपमा अलङ्कार है // 55 // वेश्माऽप सा धेर्यवियोगयोगाद् बोघः च मोहं च मुहुर्दधाना। पुनःपुनस्तत्र पुरः स पश्यन् बनाम तां सुभ्रवमुज्रमेण // 56 / / अन्धयः-सा धैर्यवियोगयोगात् मुहुः बोधं मोहं च दधाना वेश्म आप / स तत्र तां सुभ्र वम् उद्भ्रमेण पुनः पुनः पुरः पश्यन् बभ्राम // 56 // ___ व्याख्या-सा दमयन्ती, धैर्यवियोगयोगात् = धृतिविरहसम्बन्धात्, मुहुः - वारं वारं, बोघं = सम्यग्ज्ञानं, मोहं च%3 मिथ्याज्ञानं च, दधाना = धारयन्ती, वेश्म = निजभवनम्, आप = प्राप्ता, सः = नलः, तत्र = तस्मिन् स्थाने, तां%3D पूर्वोक्तां, सुभ्र वं = सुन्दरी दमयन्तीम्, उद्भ्रमेण = भ्रान्त्या, पुनः पुनः = भूयो भूयः, पुरः=अग्रे, पश्यन् = विलोकयन्, बभ्राम = भ्रमणं चकार, पुनदमयन्तीप्रात्याशयेति भावः // 56 // ___ अनुवादः--दमयन्ती धैर्य और वियोगके सम्बन्धसे बारंबार ज्ञान और मोहको धारण करती हुई अपने प्रासादमें प्राप्त हुई। नल वहाँपर दमयन्तीको भ्रान्तिसे बारंबार सामने देखते हुए भ्रमण करने लगे // 56 // टिप्पणी-धैर्यवियोगयोगात् = धैर्य च वियोगश्च ( द्वन्द्वः ), तयोः योगः, तस्मात् ( ष० त० ) / सुभ्र वं = शोभने ध्रुवौ यस्याः सा सुभ्रः, ताम् ( बहु०) / बभ्राम = भ्रम+लिट् +तिप् ( णल ) / 'बभ्राम' कहनेसे चापल-नामक सञ्चारी भावकी प्रतीति होती है, उसका लक्षण है "मात्सर्यद्वेषरागादेश्चापल्यं त्वनवस्थितिः / " 3-178 / इस पद्यमें यथासंख्य अलङ्कार है // 56 // . पद्धयां नृपः संचरमाण एष चिरं परिभ्रम्य कथंकथंचित् / विदर्भ राजप्रभवानिवासं . प्रासादमभ्रङ्कषमाससाद / / 57 // अन्वयः—एष नृपः पद्भयां संचरमाणः चिरं परिभ्रम्य कथंकथंचित् विदर्भराजप्रभवानिवासम् अभ्रङ्कर्ष प्रासादम् आससाद // 57 // _ व्याख्या-एषः = अयं, नृपः = राजा, नल:, / पद्भयां = पादाभ्यां, संचर,माणः = गच्छन्, चिरं = बहुकालं, परिभ्रम्य = परितो भ्रान्त्वा, कथंकथंचित् = अतिकष्टेन, पदातित्वेनेति शेषः / विदर्भराजप्रभवानिवासं = दमयन्त्यधिष्ठितम्, अभ्रङ्कषं = गगनस्पशि, प्रासादं = सौधम्, आससाद = प्राप्तवान् // 57 //