________________ नैषधीयचरितं महाकाव्यम् टिप्पणी–अध्युषिते = अधि+ वस् + क्तः ( कर्ममें )+ङि। अन्यत्रवत् = अन्यत्र इव, “तत्र तस्येव" इस सूत्रसे वति प्रत्यय / ईक्षमाणौ = ईक्षेते इति, ईक्ष+लट् ( शानच्)+औ। आलिङ्गिताऽलीकपरस्परान्तः = आलिङ्गितम् ( आलिङ्गनम् ) अलीकं ( मिथ्या) यस्य तत् (.बहु० ) / परस्परस्य अन्तः ( अन्तःकरणम् ), ष० त०। आलिङ्गिताऽलीकं परस्परान्तः यस्मिन् ( कर्मणि तद्यथा तथा ), बहु० / क्रि० वि० / परिषस्वजाते = परि-उपसर्गपूर्वक “स्वञ्ज परिष्वङ्गे" धातुसे लिट् + आताम् / “श्रन्थिग्रन्थिम्भिस्वञ्जीयां लिटः कित्त्वं वा" इससे कित्त्वके पक्षमें "अनिदितां हल उपधायाः ङिति" इससे 'न' का लोप / “उपसर्गात सुनोति०" इत्यादि सूत्रसे षत्व / दमयन्ती और नलने पहलेकी वासनासे परस्परकी चेष्टाको मिथ्या मानते हुए भी सत्य ही परस्परमें आलिङ्गनको प्राप्त किया यह अभिप्राय है // 51 // स्पर्श तमस्याधिगताऽपि भैमी मेने पुनन्तिमदर्शनेन / नृपस्तु पश्यन्नपि तामदीतस्तम्भो न षतुं सहसा शशाक // 52 / / अन्वयः-भैमी तं स्पर्शम् अधिगता अपि पुनः अस्य अदर्शनेन भ्रान्ति मेने / नृपस्तु पश्यन् अपि उदीतस्तम्भः ( सन् ) तां सहसा धतुं न शशाक // 52 // व्याख्या-भैमी = दमयन्ती, तं = पूर्वोक्तं, तथ्यमिति शेषः / स्पर्शम् = आमर्शनम्, अधिगता अपि = प्राप्ता अपि, पुनः = भूयः, अस्य = नलस्य, अदर्शनेन = अदृश्यत्वेन, भ्रान्ति = भ्रम, मेने = ज्ञातवती अतो नलं ग्रहीतुं न शशाकेति भावः / नृपस्तु = नलस्तु, पश्यन् अपि = दमयन्तीं विलोकयन् अपि, उदीतस्तम्भः = उत्पन्नस्तब्धभावः, उत्पन्नस्तम्भाख्यसात्त्विकभावः सन्निति भावः / तां = दमयन्ती, सहसा = झटिति, धतुं - ग्रहीतुं, न शशाक = शक्तो न बभूव // 52 // अनुवादः-दमयन्तीने नलके सत्य स्पर्शको पाकर भी फिर नलके अदृश्य होनेसे उसे भ्रम समझा। राजा नल तो दमयन्तीको देखकर भी स्तम्भनामक सात्त्विक भावकी उत्पत्ति होनेसे उन्हें सहसा पकड़नेके लिए समर्थ नहीं हुए // 52 // टिप्पणी-अदर्शनेन = न दर्शनं, तेन ( नन्० ) / उदीतस्तम्भः = उदीतः स्तम्भो यस्य सः (बहु०)। धतुं = धृ+तुमुन् / शशाक = शक् + लिट् +