________________ षष्टः सर्गः अन्वयः-भूपः वासनादृष्टजनप्रसादः इयं सक् सत्या इति अद्भुतम् आप। बाला च क्षिप्ताम् अदृश्यत्वम् इतां तां मालाम् आलोक्य विस्मयते स्म // 50 // व्याख्या-भूपः = राजा, नलः। वासनादृष्टजनप्रसादः = निरन्तरभावनाविलोकितभैमीरूपजनाऽनुग्रहभूता, इयं = स्वकण्ठस्थिता, सक् = पुष्पमाला, सत्या = सत्यभूता, इति = हेतोः, अद्भुतम् = आश्चर्यम्, आप = प्राप / बाला च = दमयन्ती च, क्षिप्ताम् = (प्राक् ) आत्मना न्यस्तां, (पश्चात् ) अदृश्यत्वम् = अदर्शयनीत्वम्, इतां = प्राप्तां, तां = पूर्वस्थितां, मालां = स्रजम्, आलोक्य दृष्ट्वा, विचार्येति भावः / विस्मयते स्म = विस्मिता अभूत् // 50 / ____ अनुवाद:-राजा नलने निरन्तर भावनासे देखी गयी दमयन्तीकी अनुग्रहभूत यह माला सत्यरूप हुई इस कारणसे आश्चर्यका अनुभव किया / दमयन्ती भी भ्रान्तिदृष्ट नलको पहले सौपी गई पीछे अदृश्यभूत उस मालाको विचारकर आश्चर्ययुक्त हो गयी // 50 // टिप्पणी-वासनादृष्टजनप्रसादः = वासनया दृष्टः ( त० त० ), स चाऽसौ जनः ( क० धा), तस्य प्रसादः (10 त०)। अदृश्यत्वं = न दृश्यत्वं, तत् ( नञ्० ) / आलोक्य = आङ् + लोक+क्त्वा ( ल्यप् ) / विस्मयते स्म-वि+ स्मिङ्+लट् + त // 50 // अन्योन्यमन्यत्रवदीक्षमाणो. परस्परेणाऽध्युषितेऽपि देशे। आलिङ्गिताऽलोकपरस्पराऽन्तस्तव्यं मिथस्तो परिषस्वजाते // 51 // अन्वयः–तौ परस्परेण अध्युषिते देशे अपि अन्योन्यम् अन्यत्रवत् ईक्षमाणौ आलिङ्गिताऽलीकपरस्पराऽन्तः मिथः तथ्यम् ( एव ) परिषस्वजाते // 51 // व्याख्या-तौ = भैमीनलौ, परस्परेण = अन्योन्येन, अध्युषिते = अधिष्ठिते, देशे अपि = स्थाने अपि, अन्योन्यं = परस्परं, नलो भैमी, सा च नलमिति भावः / अन्यत्रवत् = देशान्तर इव, ईक्षमाणौ = पश्यन्ती, अन्यत्र स्थायिनाविव पश्यन्ताविति भावः। आलिङ्गिताऽलीकपरस्पराऽन्तः = आलिङ्गनमिथ्यात्वज्ञानं यथा तथा, मिथः = अन्योन्यं, तथ्यं यथार्थम् एव, परिषस्वजाते-आलिङ्गनं चऋतुः // 51 // अनुवादः-दमयन्ती और नलने परस्पर एक ही स्थानमें स्थित होकर भी एक-दूसरेको भिन्न स्थानमें रहे हुए के समान देखते हुए परस्परके आलिङ्गनको अन्तःकरणमें मिथ्या समझकर भी परस्परमें सचमुच ही आलिङ्गन किया // 51 //