________________ नैषधीयचरितं महाकाव्यम् ___ अनुवादः-अवनत अङ्गोंवाली दमयन्तीने माताको प्रणाम कर आती हुई मार्गमें नलके साथ सम्बन्ध पा लिया। किन्तु नलने भ्रान्तिसे देखी गई दमयन्तियोंके बीचमें सत्यरूप दमयन्तीको नहीं पहचाना / दमयन्तीने भी . अदृश्य होनेसे नल को नहीं देखा / / 48 // ____ टिप्पणी–नताऽङ्गी=नतानि अङ्गानि यस्याः सा ( बहु 0 ) / अम्बाम्= "अम्बा सवित्री जननी माता चे"ति हलायुधः / प्रणम्य = प्र+नम्+क्त्वा ( ल्यप् ) / उपनता = उप+नम् + क्तः + टाप / पु। आप् + लिट् + तिप् ( णल् ) / भ्रान्तभैमीषु = भ्रान्ताश्च ताः भम्यः, तासु ( क० धा० ) / विवेद = विद् + लिट् + तिप् ( णल् ) / ददर्श = दृश् + लिट् + तिप् (णल् ) // 48 // प्रसूप्रसादाधिगता प्रसूनमाला नलस्यं भ्रमवीक्षितस्य / लिप्ताऽपि कण्ठाय तयोपकण्ठे स्थितं तमालम्बत सत्यमेव // 46 // अन्वयः-प्रसूप्रसादाऽधिगता प्रसूनमाला तया भ्रमवीक्षितस्य नलस्य कण्ठाय क्षिप्ता अपि उपकण्ठे स्थितं सत्यम् एव तम् आलम्बत // 49 // व्याख्या-प्रसूप्रसादाऽधिगता मात्रानुरागप्राप्ता, प्रसूनमाला-पुष्पमालिका, तया = दमयन्त्या, भ्रमवीक्षितस्य = भ्रान्तिदृष्टस्य, नलस्य नैषधस्य, कण्ठाय%3D गलाय, क्षिप्ता अपि = प्रेरिता अपि, उपकण्ठे = समीपे, स्थितं = विद्यमानं, सत्यम् एव = तथ्यमेव, तम् = नलम्, आलम्बत = प्राप्तवती // 49 // अनुवादः-मातासे अनुरागपूर्वक दी गयी फूलोंकी माला दमयन्तीसे भ्रान्तिसे देखे गये नलके गलेके लिए समर्पित की जानेपर भी निकटमें रहे हुए सचमुच ही नलको प्राप्त हुई // 49 // टिप्पणी-प्रसूप्रसादाऽधिगता = प्रसूते इति प्रसूः (प्र+सू+क्विप् + सुः ), “जनयित्री प्रसूर्माता जननी" इत्यमरः / तस्या: प्रसाद: (10 त० ), "स्यात्प्रसादोऽनुरागेऽपि" इत्यमरः / तेन अधिगता ( तृ० त० ) / प्रसूनमाला = . प्रसूनानां माला (10 त० ) / भ्रमवीक्षितस्य = भ्रमेण वीक्षितः, तस्य ( तृ० त० ) / आलम्बत आङ+लवि+ लङ+त // 49 // खग्वासनादृष्टजनप्रसादः सत्येयमित्यद्भुतमाप भूपः / क्षिप्तामदृश्यत्वमितां च मालामालोक्य तां विस्मयते स्म बाला // 50 //