________________ षष्ठः सर्गः अन्वयः-"भ्रमन्त्या मया पुमान् इव अस्पशि / मया पुंसः छाया. इव, व्यलोकि / मया अपि कश्चित् ब्रुवन् इव अकि" इति स्त्रणगिरः स शृणोति स्म // 47 // व्याल्या-भ्रमन्त्या = संचरन्त्या, मया, पुमान् इव = कश्चित् पुरुष इव अस्पशि = स्पृष्टः / मया, पुंसः = कस्यचित्पुरुषस्य, छाया इव = प्रतिबिम्बम् इव, व्यलोकि = विलोकिता / मया अपि, कश्चित् कोऽपि पुरुषः, ब्रुवन् इवलपन् इव, अतकितर्कितः / इति = एवंरूपाः, स्त्रणगिरः = स्त्रीसमूहवचनानि, अथवा स्त्रीभवानि वचनानि, सः = नल:, शृणोति स्म = श्रुतवान् // 47 // अनुवादः-धूमती हुई मैंने पुरुषके समान किसीको छू लिया। मैंने पुरुषके समान किसीकी छाया देखी / मैंने भी बोलते हुए किसीकी तर्कना की // 47 // टिप्पणी-भ्रमन्त्या = भ्रम+ लट् ( शतृ ) + डीप् +टा। अस्पशिस्पृश+ लुङ् ( कर्ममें ) +त। व्यलोकि = वि+लोक+लुङ् ( कर्ममें )+ त / ब्रुवन् - ब्रू+लट् ( शतृ )+सु / अतर्कि=तर्क+णिच्+लुङ् (कर्ममें)+ त। स्त्रणगिरः = स्त्रीणां समूहः स्त्रणम्, स्त्री शब्दसे "स्त्रीपुंसाभ्यां नस्नबौ भवनात्" इससे नन प्रत्यय / स्त्रणस्य गिरः, ताः (10 त०)। अथ वा-स्त्रीषु भवाः स्त्रणाः (स्त्री+नन +जस्) / ताश्च ता गिरः, ताः (क० धा० ) शृणोति स्म = श्रु+लट् + तिप्, “स्म" के योगमें “लट् स्मे" इससे भूतकालमें लट् // 47 // अम्बां प्रणम्योपनता नताली नलेन भैमी पथि योगमाप / स भ्रान्तभैमीषु न तां विवेद, सा तं च नाऽदृश्यतया ददर्श // 48 // अन्वयः-नताङ्गी भैमी अम्बां .प्रणम्य उपनता ( सती ) पथि नलेन योगम् आप / ( किन्तु ) स भ्रान्तभैमीषु तां न विवेद / सा च तम् अदृश्यतया न ददर्श // 48 // - व्याख्या-नताङ्गी = आनतदेहाऽवयवा, भैमी = दमयन्ती, अम्बा-मातरं, प्रणम्य = प्रणत्य, उपनता = आगता सती, पथि = मार्गे, नलेन = नैषधेन सह, योग = सम्बन्धम्, आप = प्राप्तवती / किन्तु, सः = नल:, भ्रान्तभैमीषु = भ्रान्तिदृष्टदमयन्तीषु, अलीकभैमीषु, तां सत्यरूपां भैमी, न विवेद = विविच्य न ज्ञातवान् / सा च = दमयन्ती च, तं = नलम्, अदृश्यतया = अदर्शनीयत्वेन, न ददर्श-नो दृष्टवती // 48 //